SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ [५७५ गुणानुमोदनाद्वारे ऋषिदत्ताकथा] परोलक्षेषु निस्पन्दमानलोचनपक्ष्मसु । पश्यत्सु पुरलोकेषु मालिताट्टालपङ्क्तिषु ॥३७३॥ यक्षकिन्नरगन्धर्वस्वर्वासिषु नभोऽङ्गणे । स्थितेषु कौतुकात् पाणिधृतमालेषु सादरम् ॥३७४।। विहाय सममौषध्या मुनितां मुनिनन्दनी । प्रादुरास पटीमध्यादब्धेरिव रमा ततः ॥३७५।। षड्भिः कुलकम् ॥ पुष्पवृष्टिं व्यधात् तस्याः शिरसि त्रिदशावली । जयेत्याशीर्वच:पूरपूरिताखिलदिङ्मुखा ॥३७६।। उवाच रूपसम्पत्तिविजितामरसुन्दरीम् । तामालोक्य तदा लोकः स्मेरविस्मयमानसः ॥३७७।। चामीकरस्य पुरतो यादृशी किल पित्तला । तादृशी ऋषिदत्तायाः पुरः स्फुरति रुक्मिणी ॥३७८।। स्थाने तदस्य भूपालसूनोराग्रहसद्ग्रहः । को नाम म्रियते नास्याः कृतेऽतिमधुराकृतेः ? ॥३७९॥ कुमारोऽपि बहोः कालाद् दृष्टनष्टापदस्तथा । पपौ यथानन्दबाष्पैस्तल्लावण्यमिवाचमत् ॥३८०॥ ऋषिदत्तापि नीरङ्गीदलोत्सङ्गीकृतानना । आलुलोके दृशा लज्जास्पृशा पत्युः पदाङ्गुलीः ॥३८१॥ जीवन्तीमात्मजामातुराविर्भूय पुरः स्थिताम् । तामालोक्य नृपोऽप्यन्तः प्रमोदवशगोऽभवत् ॥३८२॥ निनाय च निजं सौधमसौ.धन्यतमां नृपः । कुमारसहितामेता समारोप्य करीश्वरम् ॥३८३।। गौरवात् तामथ स्नानवासोऽलङ्करणादिभिः । सच्चकार निजापत्यनिर्विशेषं विशेषवित् ॥३८४॥
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy