SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ ५७४] [विवेकमञ्जरी 10 सावष्टम्भमदम्भस्त्वं यदेवं देव ! जल्पसि । यतः प्रकटयन्त्येव वाचोऽभिप्रायमान्तरम् ॥३६१।। मुनिर्जगाद जानामि ज्ञानेन तव वल्लभा । दक्षिणाशापतेरस्ति पुरे पश्यति मां यथा ।।३६२॥ प्रस्थापयामि तदहं तत्पदे सविधे विधेः । स्थित्वा तां, सुहृदः कार्ये तदल्पं यद् विधीयते ॥३६३।। अब्रवीदथ सौत्सुक्यप्रमोदं भूपनन्दनः । यद्यप्येतद् मुने ! तत्र विलम्बो युज्यते न ते ॥३६४|| मनिर्बभाषे किं ध्यानक्षणो दक्षिणया विना । सिध्यति मापतनय ! शीतमेव पतेन्मुधा ॥३६५॥ उवाच भूपसूस्तुभ्यमग्रेऽपि हि मुने ! मनः । अर्पितं सांप्रतं सोऽयमात्मापि मम तावकः ।।३६६।। जगाद मुनिरप्यस्तु त्वदात्मा निकटे तव । यच्च दानं यदा याचे ददीथास्तत् तदा मम ॥३६७॥ उक्त्वा प्रमाणमादेश इति भूपसुतोऽपि तम् । ऊचे किञ्च विलम्बोऽयं लम्बो मामतिबाधते ॥३६८॥ कुमार ! ते प्रियामाविष्करोम्येषोऽधुना ननु । इत्युदीर्य मुनिस्तथ्यं नेपथ्यान्तरमाविशत् ॥३६९॥ भविताहो ! मुनेः कर्म समीचीनमिदं यदि । अहमेव कदा धन्यः पुण्यवानिह भूतले ॥३७०।। प्रभविष्णुः प्रभावोऽत्र सतीनां च सतामपि । भूयादिति महीनाथे सनाथे हृदि चिन्तया ॥३७१॥ द्रष्टव्याऽद्य मया दिष्ट्या दृष्ट्या संजीवनौषधिः । सा प्रियेत्युत्सुकरवान्तेऽपि च भूपसुते सति ॥३७२।। 15 20
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy