________________
[५७३
गुणानुमोदनाद्वारे ऋषिदत्ताकथा]
कावेरीपतिनाप्येष जवादेत्य निवारितः । कुमार ! त्वादृशां नेदमबलाकर्म युज्यते ॥३४९॥ राज्ञेत्युक्तोऽप्यसौ यावदाग्रहं न विमुञ्चति । ऋषिदत्तामुनि तावदवोचन् परितो जनाः ॥३५०॥ भगवन्नेष निःशेषं मन्यते ते सितासितम् । अतः कृताग्रहं संप्रत्येनं मृत्योनिवर्तय ॥३५१॥ अभ्यथितो जनैः सोऽथ निद्भुतामन्दसंमदः । ऋषिदत्तामुनिः प्राह विहस्य नृपनन्दनम् ॥३५२॥ कुमार ! महिलामात्रकृते किं म्रियते वद । त्वादृशा वसुमत्या हि पतयः सेयमज्ञता ॥३५३॥ प्रतिश्रुतमहो ! यन्मां भवताऽऽनयता वनात् । धन्यमण्डलमूर्धन्य ! विस्मृतं तत् कथं तव ? ॥३५४।। किञ्च तद्वल्लभासङ्गकाम्यया मा मृथा वृथा । देहिनां गतयो भिन्नाः परलोकजुषां यतः ॥३५५॥ मृतस्य वल्लभासङ्गवार्तापि तव दुर्लभा । जीवतः पुनरागत्य सा कुतोऽपि मिलिष्यति ॥३५६॥ कुमारोऽपीत्यभाषिष्ट विप्लावयसि मां मुने ! । संघटन्तेऽसवः क्वापि जीवतां मृतिमीयुषः ? ॥३५७॥ जगाद मुनिरप्येनं मा विषीद महामते ! । अमुना तव सत्त्वेन जीविष्यति मृतापि सा ॥३५८॥ सप्रत्याशमथ क्ष्मापसूनुर्मुनिमभाषत । प्रभो ! मां पुनरप्येतदेव श्रावय सत्वरम् ॥३५९॥ प्रत्यक्षं भवता क्वापि दृष्टा सा किमथ श्रुता ? । अथ जानासि जीवन्ती ज्ञानेन क्वापि तस्थुषीम् ? ॥३६०॥
15