________________
५७२]
[विवेकमञ्जरी
रूपलक्ष्मीजुषो यस्याः समस्या कामकामिनी । वर्णिका मेनका नागयोषितः पदपांशवः ॥३३७॥ जाते तद्विरहे दैवादासीस्त्वमपि मे प्रिया । यत् क्षैरेयीं विना घृष्टिरपि प्रीतिकरी न किम् ? ॥३३८॥ ततः सकोपा भूपालदुहिता पूर्वकारितम् । निजं पौरुषमाचख्यौ परिणेतुर्बहिर्मुखी ॥३३९।। तदाकार्ण्य तदा दत्तकर्णः सोऽपि मुदं हृदि । ऋषिदत्तामुनिर्दधे स्वकलङ्कापनोदतः ॥३४०॥ इति श्रुत्वा कुमारोऽथ भृकुटीभङ्गभीषणः । रुक्मिणीमपनीयाङ्कादतुच्छं निरभर्स्यत् ॥३४१।। अरे पापीयसि ! क्रुरे ! भवती तन्वतीदृशम् । आत्मानं नरककोडे मां च दुःखावटेऽक्षिपत् ॥३४२॥ हहा गुणावती रूपवती योऽसीद् महासती । कथाशेषीकृता सापि धिक् त्वामशुभकारिणीम् ॥३४३॥ केवलं सूत्रयन्त्यात्महितं किं विहितं त्वया । लोकद्वयविरुद्धं हा पापकारिणि ! वैरिणि ! ॥३४४॥ इति निर्भर्त्सतस्तस्य नवोढां गूढदीधितिः । निशानाशात् पतिर्भासामाविरासाम्भसां निधेः ॥३४५।। निशापतिरपि प्राप्तनिशाविरहविह्वलः । झम्पापातमिवाधातुं ययावपरवारिधौ ॥३४६।। अथ भूपसुतः कान्तादुःखतान्ताशयश्चिताम् । किङ्करैः कारयामास तत्रैव भवनाङ्गणे ॥३४७॥ अधिरोढुं चितां सोऽग्निनिचितां चलितश्च ताम् । स्वजनैर्वार्यमाणोऽपि सबाष्पं पदपातिभिः ॥३४८॥