SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 ५७० ] आसीदत्राश्रमे देव ! हरिषेणमुनिः पुरा । ऋषिदत्तेति तस्याभूत् तनया विनयावनिः ॥ ३१३॥ कुमारः कोऽपि तां निन्ये परिणीय निजं पुरम् । मुनिरप्यगमद् वह्निप्रवेशात् त्रिदशात्मताम् ॥३१४॥ तदैवाहमपि क्षोणीं भ्रामं भ्राममिहागमम् । अमेयगुणनाभेयसेवाहेवाकमुद्वहन् ॥३१५॥ अपूर्यत ममात्रैव वसतः पञ्चवत्सरी । पुनस्त्वद्दर्शनेनाद्य वल्लीवाभूत् फलेग्रहिः ॥३१६॥ अब्रवीदथ सानन्दभिलापतिसुतोऽपि तम् । मुने ! त्वां पश्यतो दृष्टिः कथं मे न हि तृप्यति ? ॥३१७॥ तेनापि जगदे देव ! कोऽपि कस्यापि वल्लभः । मोदन्ते कुमुदानीन्दौ कमलानि तु भास्करे ॥३१८॥ मुनिं विनिहतास्तोकतोषचिह्नमथावदत् । सोपरोधमिति क्षोणीरमणप्रभवोऽपि तम् ॥३१९॥ अग्रे समस्ति गन्तव्यं मुने ! यामि कथं यतः । त्वत्प्रीतिशृङ्खलाबद्धं मनो मे गन्तुमक्षमम् ॥ ३२० ॥ तद् मयैव समं तत्र चल चारुमते ! यते ! वलमानस्त्वहं पश्चाद् मोक्ष्यामि त्वामिहाश्रमे ॥ ३२१|| अथावादीद् मुनिर्मैवमाग्रहं त्वं वृथा कृथाः । यतः संयमिनां देव ! दूष्यते राजसङ्गतिः ॥३२२॥ जगदे जगतीशक्रसूनुना मुनिरादरात् । कुर्वते प्रार्थनाभङ्गं त्वादृशा अपि किं प्रभो ! ? ॥ ३२३॥ अमात्या अपि तं प्राहुः स्वामिचित्तोपलक्षिणः । तथा यथा कुमारेण स मेने गमनं समम् ॥३२४|| [ विवेकमञ्जरी
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy