________________
[५६९
गुणानुमोदनाद्वारे ऋषिदत्ताकथा]
चिन्तयन्नित्ययं शोकशङ्कसंकुलमानसः । जगाम कतिभिः साकं पत्तिभिर्जिनमन्दिरम् ॥३०१॥ अस्मिन्नवसरे तस्य दक्षिणं चक्षुरुच्चकैः । पस्पन्द संमदादेवमचिन्तयदसौ ततः ॥३०२॥ ममास्फुरदिदं चक्षुः प्रियसङ्गमसूचकम् । सा तु दैवहता क्वास्ते तदिदं किमु निष्फलम् ? ॥३०३॥ अथवेदं ममाग्रेऽपि चैत्यं चिन्तामणीयते । अधुनापि प्रियं किञ्चित् तादृशं तद् भविष्यति ॥३०४॥ इति चिन्तयते यावत् कुमारः स्फारविस्मयः । ऋषिदत्तामुनिस्तावदस्मै पुष्पाण्युपानयत् ॥३०५॥ कुमारोऽपि करात् तस्य पुष्पमालां समाददे । दृशा पश्यन्नमुं जातिप्रियाभ्रमविशालया ॥३०६।। ऋषिदत्तामुनिः सोऽपि हृदीदं समचिन्तयत् । रुक्मिणी परिणेतुं किं प्रस्थितोऽयं मम प्रियः ? ॥३०७॥ कुमारोऽपि जिनं नत्वा तमाहूय च सादरम् । आत्मगुप्यद्गुरुं निन्ये तद्वियोगासहः सुधीः ॥३०८।। अग्रासनोपविष्टं तं भोजयामास चाञ्जसा । पर्यधापयदत्यर्थमभ्यर्थ्य वसनानि च ॥३०९।। ततोऽपृच्छदिदं मानी समानीय करद्धयीम् । कुमारस्तं समासन्नासनासीनं विनीतवाक् ॥३१०॥ मदीयनयनाम्भोजभास्करप्रतिम ! प्रभो ! । निवेदय वनेऽमुष्मिन् कदाऽऽयासी: कुतस्तथा ? ॥३१॥ अथोवाच मुनिः काशसंकाशदशनत्विषा । अयं विद्योतयन्नुच्चैः समाजपटमण्डपम् ॥३१२॥