________________
५६८]
[विवेकमञ्जरी
परिणेतुं सुतामस्मत्प्रभोरात्मतनूभवम् । तत् त्वं विसृज राजेन्दो ! सज्जनं माऽवजीगणः ॥२८९॥ किमन्यदेकतो रङ्कमपि राजानमन्यतः । वचनापि विवेकज्ञा जातु न ह्यावजानते ॥२९०॥ दूतवाणीमिति क्षोणीपतिः श्रुत्वा निजाङ्गजम् । दुःखिनं रहसि क्रोडीकृत्य कृत्यविदब्रवीत् ॥२९१॥ किमेवं नित्यशोऽतुच्छ वत्स ! चेतसि ताम्यसि । किं त्वयाऽ श्रावि नैवं यत् ‘कृतं कर्म न दूषयेत्' ।।२९२।। तत् त्वं मदुपराधेन कावेरीनगरीशितुः । परिणेतुं दुहितरं सत्वरं वत्स ! संचर ॥२९३॥ अनिच्छन्नपि स मापवाचमेताममन्यत ।।
रुद्रस्नात्रमिवालध्यं भाषितं हि पितुः सताम् ॥२९४॥ ६ अथो चचाल गणकोपदिष्टेऽहनि रुक्मिणीम् ।
परिणेतुमसौ सैन्यधूलिधूसरिताम्बरः ॥२९५॥ वाहिनी वाहिनीवास्य वाहकल्लोलमालिनी । ऋषिदत्तावनाम्भोधौ प्रविश्य स्थितिमादधे ॥२९६।। वनमालोक्य तद् दृष्टचरं चारुगुणैकभूः । कुमारश्चिन्तयामास बाष्पक्लिन्नविलोचनः ।।२९७।। वनं हन्त ! तदेवेदं तदा पूर्णमनोरथः । पर्यणैषमहं यत्र तामहो तारलोचनाम् ॥२९८॥ त एव तरवः सर्वे तदेव हि सरोवरम् । सैव भूमिस्तदेवेदं पुरतो जिनमन्दिरम् ॥२९९।। ममाजायत दुःखाय सुखाय यदभूत् पुरा । निरागस्यापि निर्बुद्धे ! हा विधे ! किं कृतं मयि ? ॥३००॥
15
20