SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ [५६७ गुणानुमोदनाद्वारे ऋषिदत्ताकथा] अथ ग्रहिलतामेतां जल्पामि कियतीमहम् । यादृगेवोप्यते पूर्वं तादृगेव हि लूयते ॥२७७॥ इति शोकं कुशीकृत्य जनकोटजवासिनी । कन्दमूलफलाहारा तस्थावेकाकिनी वने ॥२७८॥ हस्तन्यस्तमुखी दु:खं तस्थुषी सुमुखी हृदि । दध्यावित्यन्यदा चित्रलेपकाष्ठमयीव सा ॥२७९॥ प्रायः संपाकमधुरा कर्कन्धूरिव यद् वधूः । शुद्धा वनीपकं तद् मे भविता शीलशीलनम् ॥२८०॥ हुं स्मृतं जनकेनास्ति पुरा संदर्शितौषधी । एका यस्याः प्रभावर्द्धिवशाद् नारी नरायते ॥२८१॥ इति निश्चित्य तामेषा वनं वीक्ष्य समाहृताम् । कर्णे पवित्रिकीकृत्य पितृशिक्षामिवाकरोत् ॥२८२।। तस्याः प्रभावतः पुंस्त्वकुतोभयमाप्य सा । मुनिवेषा सुखेनास्थादर्चयन्ती जिनेश्वरम् ॥२८३॥ $$ इतश्च वल्लभोऽमुष्या रोहद्विरहविह्वलः । तस्थौ राज्येऽपि विक्रीतावशिष्ट इव शून्यहृत् ॥२८४॥ सुलसापि निजोदुग्रप्रवृत्त्या जितकाशिनी । गत्वा संमदयामास कावेरीपतिनन्दिनीम् ॥२८५॥ शिक्षयित्वा तु कावेरीपतिरप्यतिमानवान् । प्रास्थापयत् तदा दूतमथो हेमरथं प्रति ॥२८६।। सोऽपि गत्वा ततो दूतः पुरुहूतमिव श्रिया । रथमर्दनभूपालमभ्यधादिति पर्षदि ॥२८७|| भवन्तं देव ! कावेरीपतिः प्रच्छयतीदृशम् । अयं नाऽऽयातवानत्र कुमारः किमु कारणम् ? ॥२८८॥ 15
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy