________________
5
10
15
20
५६६ ]
मद्वियोगमलं सोढुं मनागपि न यः पतिः । सोऽपि दूरीकृतो देव ! भवता कमुपालभे ? || २६५ ॥ भर्तः ! दुःखमहागर्तपतितेयं तव प्रिया ।
क्व यातु कथयागत्य महाशय ! महोदय ! 2 ॥ २६६॥ विलप्य बहुधापीति दक्षिणाभिमुखी पितुः । आश्रमं हृदि कृत्वाथ सा चचाल शनैः शनैः ॥ २६७॥ आरूढशिबिरस्याङ्कपल्यङ्कं पत्युराश्रिता । आजगाम पथा येन सैन्यसंवलितावनिः ॥२६८॥
[ विवेकमञ्जरी
तेन सा प्रययौ दर्भपाट्यमानपदाम्बुजा ।
एकाकिन्यातपक्लान्ता ‘धिगहो ! चरितं विधेः ' ॥ २६९॥ युग्मम् ॥ हरिवर्षसमायातबीजैस्तरुभिरुद्गतैः । स्वहस्तवापितैरेव संदर्शितपथिस्थितिः ॥२७०॥
जगाम पैतृकं धाम तपोवनमियं क्रमात् ।
पितृः श्मशानमालोक्य रुदोदातिभृशं पुनः ॥२७१॥ “हा तात ! दुहितेयं तेऽनवधिदुःखसेवधिः । क्वासि त्वमेहि मे देहि वत्सावत्सल ! दर्शनम् ॥२७२॥ दुःखितां दीनवदनामेकां शरणवर्जिताम् । आश्वासय समागत्य विधाय करुणां मयि ॥ २७३॥ शून्येऽमुत्र वने तात ! त्वदृते दुःखभागहम् । पूत्करोमि पुरः कस्य क्व यामि च करोमि किम् ? ॥२७४॥ रम्यमासीत् पुरमिव त्वयीदं तात ! जीवति । अभूत् पुनरिदानीं मे गहनं दहनोपमम् ॥२७५॥ अद्राक्षमद्य जीवन्तमेव त्वां तात ! यद्यहम् । दुःखमप्युत्सवीयेत तदा वैयसनं मम ॥ २७६ ॥