SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ [५६५ गुणानुमोदनाद्वारे ऋषिदत्ताकथा] डुढौकेऽसिलतापाणिर्मारणायाथ निष्ठुरः । एकस्तेषु ब्रुवन्नैतामिति भूरिभयातुराम् ॥२५३॥ एषा न भवसि क्रूरे ! दैवतं किञ्चिदीप्सितम् । स्मराशु घस्मराचारपरायणपराक्र मे ! ॥२५४॥ इत्युदीर्यासिलतिकां यावदुद्गमयत्यसौ । तावदेषा भयोन्मेषात् पपात भुवि मूच्छिता ॥२५५॥ मृतावस्थामिमां दृष्ट्वा किमिदं मृतमारणम् ? । इत्युक्त्वा ते मिथोऽप्युच्चैः परावृत्य पुरं ययौ ॥२५६।। ६६ सापि सायं समीरेण शिशिरेण प्रसर्पता । बोधिता बन्धुनेवोच्चैर्महावनमुदैवत ॥२५७।। पश्यन्ती च श्मशानं तामपश्यन्तीव च घातकान् । सोऽनेशद् वागुराभ्रष्टमृगीनाशं मृगेक्षणा ॥२५८॥ गत्वा दूरमथ क्वापि बिभ्यती निर्जने वने । रुरोद रोदयन्ती सा रोदसी प्रतिनिःस्वनैः ॥२५९॥ गलद्भिः कुसुमैः शेफालिकाश्चन्द्रोपला अपि । तामिवान्वरुदन्निन्दूदये बिन्दुभिरम्भसाम् ॥२६०॥ पतिता दुःखपतेऽहं त्वां विना तात ! तात ! तत् । समागत्य निजापत्यहस्तालम्बनमातनु ॥२६१॥ यद्यहं त्वाममोक्ष्यं न तदार्नी तात ! दुर्मतिः । दुःखं कथमिदानीं मे स्यादिदं हन्त ! दारुणम् ? ॥२६२।। रे जीव ! भवता पाप ! किं कृतं दुष्कृतं पुरा । निरागसोऽपि यदयं ही ! कलङ्को ममाभवत् ? ॥२६३॥ व्यधा निरपराधायां यादृग् दुःखमिदं मयि । मा विधासीविधातस्त्वं हा तागपरास्वपि ॥२६४॥ 15
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy