SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 ५६४] किं कुर्मः कर्मवशगे ! सुभगे ! ह्यस्तेनऽहनि । राक्षसीति नृपस्याग्रे योगिनी त्वां न्यवेदयत् ॥२४१॥ ईदृशीं प्रातरप्यद्य नृपतिश्चरपूरुषैः । त्वामज्ञासीद् न जानीमोऽधुना तद् यद् भविष्यति ॥२४२॥ अत्रान्तरे नृपः केशैराकृष्याकृशमत्सरः । अर्पयामास तां दण्डपाशिकानां विलापिनीम् ॥२४३॥ आदिदेश च तामेवमिमां पापीयसीं पुरे । भ्रामयित्वा श्मशानान्तर्नीत्वा मारयताचिरात् ॥ २४४॥ कुमारोऽपि गलद्वाष्पबिन्दुः स्वाङ्गं विघातयन् । निषिद्धस्तत्क्षणाद् बद्ध्वा स्वयमेव महीभुजा || २४५॥ अथ सप्तशिखाबद्धश्रीफलां विफलाशिषम् । निम्बपत्रस्रगाक्रान्तकण्ठां कुण्ठितमङ्गलाम् ॥२४६॥ उद्दण्डदण्डविधृतच्छित्वरातपवारणाम् । जीर्णसंमार्जनीखण्डशेखरां खरसादिनीम् ॥२४७॥ पुरःसंचारिडक्कारीकाहलाशृङ्गडिण्डिमाम् । मिलितप्राकृतास्तोकलोकपातिबुम्बिकाम् ॥२४८|| चूर्णचित्रितनि:शेषतनुं तनुमुखीमिमाम् । पुरान्तर्भ्रमयामासुः पुरतो दण्डपाशिकाः ॥ २४९॥ कलापकम् ॥ ततः पौरेषु हाकारपरेषु पुरमध्यतः । श्मशानान्तर्नयन्ते स्म ताममी निर्दयाशयाः ॥ २५० ॥ तस्मिन्नवसरे भानुरपि द्वीपान्तरं ययौ । तस्याः कष्टामिवावस्थां विलोकितुमनीश्वरः || २५१॥ विश्वं विश्वमपि ध्वान्तविस्तरः परितस्तरे । सतां चेतस्तदाऽस्तोकरयः शोकमयोऽपि च ॥ २५२॥ [विवेकमञ्जरी
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy