SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ गुणानुमोदनाद्वारे ऋषिदत्ताकथा ] कुमारश्चिन्तयामास जाग्रन्नुग्रतरारतिः । अद्य मे दयितादोषः प्रकटो हा ! भविष्यति ॥ २२९ ॥ एकतः पितुरादेशलङ्घनं युज्यते न मे । अन्यतो दयितादुःखम् ‘इतो व्याघ्र इतस्तटी' ॥ २३०॥ इतश्च सापि सुलसा तदेव निशि निर्ममे । चरैर्निभालयामास भूमानपि वधूं प्रगे ||२३१|| अथाचख्युर्महीशाय यथादृष्टचरं चराः । ततो निर्भर्त्सयामास नृपोऽपि कुपितः सुतम् ॥२३२॥ अरे जानन्नपि क्रूरां राक्षसीचरितामिमाम् । कुलाङ्गार ! दुराचार ! पाप ! पालयसे कथम् ? ॥२३३॥ याहि याहि दृशोरग्रं त्यज मे राक्षसीपते ! | त्वया कलङ्कितमिदं शशाङ्कधवलं कुलम् ||२३४|| नृपं विज्ञपयामास कुमारोऽपि कृताञ्जलिः । देव ! सर्वमिदं मिथ्या प्रसीद मयि मा कुपः ॥ २३५॥ अथाब्रवीद् नृपः कोपाटोपसंटङ्कितध्वनिः । अरे प्रत्येष नास्मासु स्वयं गत्वा निभालय ॥२३६॥ कुमारोऽपि नृपादेशमासाद्य विमलाशयः । स्वं जगाम ततो धाम क्षामः श्याममुखच्छविः ॥२३७|| वामहस्तलन्यस्तकपोलां रुदतीं प्रियाम् । दृष्ट्वाऽवादीदयं प्रेम्णा सदयं हृदयं दधत् ॥ २३८॥ सुवाणि ! किमिदं पाणितले मुखमचीकरः । यदूर्मिकाभिरेताभिः कपोलः परिपीड्यते ॥२३९॥ अजस्रमश्रुधाराभिः कुरुषे किमु वर्षणम् ? । एतच्चित्राम्बु मे हर्षकर्षणस्यातिमर्षणे ! ॥ २४०॥ [ ५६३ 5 10 15 20
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy