________________
५६२]
[विवेकमञ्जरी
$$ भूयो भूयः परिज्ञातवृत्तान्तोऽथ महीपतिः ।
अमात्यानित्यभाषिष्ट कोपाटोपारुणेक्षणः ॥२१७।। रे रे मम पुरे नित्यमेकैको मार्यते जनः । .... यूयं किमु न जानीथ यदेवं स्थ निराकुला: ? ॥२१८॥ तेऽप्यूचुर्मानवी नैव देव ! मारिः पुरे तव । किमु कुर्मो वयं तत्र मान्त्रिकी दैवती यदि ? ॥२१९।। उत निर्वास्यतामेते देव ! पाखण्डिनः पुरात् । तथापि यदि नो शान्तिस्तदाऽन्यवधार्यते ॥२२०॥ पुरात् पाखण्डिनः सर्वान् मन्त्रिभिः प्रेरितस्ततः । मुक्त्वा जिनमुनीन् मानी नृपतिर्निरवासयत् ॥२२१॥ आगत्य सुलसा कालविदुषी पापसंमुखी । नृपमत्रान्तरे क्रूरा रहसीदं व्यजिज्ञपत् ।।२२२।। मयाऽद्य ददृशे देव ! निशि स्वप्नोऽयमीदृशः । दैवतं किञ्चिदागत्य जाने मामिदमब्रवीत् ॥२२३॥ प्रातः पाखण्डिनः सर्वान् नृपो निर्वासयिष्यति । तत् तस्य भवती गत्वा शुद्धिमेतां निवेदयेत् ॥२२४॥ यदसौ ते कुमारस्य वधूर्वनसमाहृता । नियतं राक्षसी, तस्या एव चेष्टितमीदृशम् ॥२२५।। पाखण्डिनः पराभूयमैतत् सत्यापय प्रभो ! । यदिशून् खादति क्रोडः कुट्यते सैरिभाननम् ॥२२६॥ मदीये वचसि क्षोणीपाल ! चेत् तव संशयः । इदं तत् कौतुकं रात्रावयैव परिभावयेः ॥२२७।। आमित्युक्त्वाऽवनीशोऽपि विसृज्यैतामथो निशि । कुमारं स्वान्तिके स्वाङ्गपीडादम्भादशाययत् ॥२२८॥
15
20