________________
5
10
15
५६०]
20
रुक्मिणी प्राहिणोद् दुष्टचेतोवृत्तिमिवाङ्गिनीम् । सापि प्राप पुरं लक्ष्मीसदनं रथमर्दनम् ॥९३॥ युग्मम् ॥
कुमारदयिताभाग्यमिव पूषाऽस्तमासदत् । तदाऽगण्यमिवापुण्यं प्रससारतमां तमः ॥९४|| उदियाय ततः शीलव्रतनिर्मलदीधितिः । जगल्लक्ष्मीवतंसस्य शशिनो बिम्बमम्बरे ||६५ ॥ दत्त्वावस्वापनीं तत्र जनमेकं निहत्य च । सा कुमारचतुःशालं सुलसाऽनलसा ययौ ॥९६॥ ऋषिदत्तां कुमारान्ते निरीक्ष्य सुखशायिनीम् । धुन्वती मौलिमश्रान्तं चेतसीदमचिन्तयत् ॥९७॥ अहो रूपमहो दीप्तिरेतस्या मृगचक्षुषः । अयं च पुण्यवान् यस्य दयितेयमजायत ॥९८॥
अथ सा मुखमेतस्याश्चक्रे शोणितशोणितम् । यतो दुरात्मनां क्वास्ते कृत्याकृत्यविवेकिता ? ॥९९॥ उपधानपदे किञ्च पललं न्यस्य पापिनी । हृत्वावस्वापिनीं चापि चतुःशालात् पलायिता ॥ २००॥ मारितं प्रातरालोक्य जनं परिजनस्ततः । चक्रे कलकलं तेन कुमारः प्रत्यबुध्यत ॥ २०१ ॥ ज्ञातोदन्तः प्रियां वीक्ष्य रुधिरारुणिताननाम् । उपधानोपरिन्यस्तपललामित्यशङ्कत ॥२०२॥ मारितः श्रूयते कश्चिदमुत्र पुनरीदृशम् । राक्षसीयं हहा प्राणवल्लभा नु कथं मम ? ॥२०३॥ रूपसम्पदपापाय यदहो श्रूयते श्रुतौ ।
हा धातः ! किमिदं तात ! विपरीतमजायत ? ॥२०४॥
[ विवेकमञ्जरी