________________
[५५९
गुणानुमोदनाद्वारे ऋषिदत्ताकथा]
तिष्ठ तिष्ठ प्रिये ! माऽश्रुपातमत्यन्तमातनु । किं वलन्ते कृते दुःखे परलोकपथं गताः ? ॥१८१॥ अयं हि ते पिता कामं कृतराज्य: कृतव्रतः । न शोच्यः किमु वा शोच्यः प्रिये ! पूषाऽस्तमीयिवान् ? ॥१८२॥ इत्थं संबोध्य तां तस्य कृतशेषौदेहिकः । कुमारः कारयामास श्मशाने स्थण्डिलं मुनेः ॥१८३।। अथ कन्यामवज्ञाय यदर्थं चलितः पुरा ।। प्रतस्थे स तया साधू कुमारः स्वपुरं प्रति ॥१८४।। पत्या समं समायान्ती पित्रा दत्तां परामसौ । अवपत् पथि सर्वर्तुफलवृक्षफलावलीम् ॥१८५।। अखण्डितप्रयाणोऽथ कुमारो रथमर्दनम् । प्रविवेश पुरं पित्रा कारितोत्तुङ्गतोरणम् ॥१८६।। सवधूकस्ततः पित्रोननाम चरणद्वयीम् । तौ चातिमुमुदाते तदर्शनैकसुखोत्सवौ ॥१८७।। पित्राभिनन्दितः साकं तदा च ऋषिदत्तया ।
कुमारोऽभुङ्क्त विषयसुखं लक्ष्म्येव केशवः ॥१८८॥ 88 इतश्चाश्रावि कावेरीभुजा सुन्दरपाणिना ।
उदन्तो यत्कुमारेण परिणीता मुनेः सुता ॥१८९॥ सापि तदुहिता जातयौवनौन्मादसादरा । कुमारा काक्षिणी दुःस्था रुक्मिणी समजायत ॥१९०॥ अथान्यदाऽमिलत् तस्या योगिनी सुलसाभिधा । समस्तमन्त्रतन्त्रादिवेदिनी पापमेदिनी ॥१९१।। सदैवोपकृतामेतां भोजनाच्छादनादिभिः । ऋषिदत्ताकलङ्काय कुमारागतिहेतवे ॥१९२॥