________________
5
10
15
20
५५८ ]
निपत्य पादयोः प्राह कुमारोऽपि मुनीश्वरम् । अलं प्राणपरित्यागवार्तयापि प्रसीद नः ॥ १६९॥ रुदती ऋषिदत्तापि समानीय करद्वयीम् । भक्तिनम्रशिराः प्रोचे पितरं नितरामिति ॥ १७०॥ यदयं तात ! जामाता भवतां बत जल्पति । तद् यूयं प्रतिपद्यध्वं विधाय करुणां मयि ॥ १७१ ॥ " सुप्रसन्नः सुतामेवमुवाच मुनिरप्यथ । शोकेनालमलं वत्से ! तुच्छेयं तव शेमुषी ॥ १७२ ॥ परं शिक्षावचोऽस्माकमिदं क्वचन मा मुचः । शुश्रूषेथा गुरून् शीलं पालयेथाः पतिव्रते ! ॥१७३॥ सपत्नीष्वपि मा कोपीः कोपयन्तीष्वपि द्रुतम् । विधु: संतप्यते क्वापि दूयमानोऽपि राहुणा ? ॥ १७४॥ मा भूः सुखे च दुःखे च वत्से ! धर्मपराङ्मुखी । धर्म एव हि जन्तूनां पिता माता सुहृत् प्रभुः " ॥१७५॥२ आपृच्छ्याथ महीनाथसुतं स्वामपि नन्दनीम् । विवेशाग्नौ मुनिः पञ्चपरमेष्ठिपरायणः ॥१७६॥ विलुठ्य जगतीपठे चितानिकटवर्तिनि । रुदती ऋषिदत्तापि विलापानकरोदिति ॥ १७७৷৷
" हा तात तात ! निःसीमापत्यवात्सल्यतत्पर ! अद्याहं त्वदृते शोच्या गतमूलेव कन्दली ॥१७८॥ दृष्टापि न मया मात तात ! मातापि मे भवान् । तदुभावप्यजायेतां हतौ भुवि मृते त्वयि" ॥१७९॥ रुदतीमिति भूपालसुतस्तां दयितामथ । प्राबोधयद् निवेश्याङ्कमनङ्कचरितामिति ॥१८०॥
[ विवेकमञ्जरी