________________
[५५७
गुणानुमोदनाद्वारे ऋषिदत्ताकथा ]
अत्रान्तरेऽवदद् बन्दी देव ! तुभ्यं प्रयच्छतः । मुनेरात्मसुतां कर्मसाक्षी साक्षी भवत्ययम् ॥१५७॥ कुमारं मुनिरप्याह विलोक्याभि दिवाकरम् । वत्सोत्तिष्ठ प्रयाहि स्वं शिबिरं कुरु भोजनम् ॥१५८॥ कुमारोऽपि मुनि प्राह प्रणम्य प्राञ्जलिः प्रभो ! । अद्य भोक्ष्यामि युष्माभिः समं चलत तद् मया ॥१५९।। मुनिरप्यभणद् भद्र ! प्रमाणं तव गौरवम् । फलमूलादि मुक्त्वाऽन्यत् कल्पते न तपस्विनाम् ॥१६०॥ मुनिनेति विसृष्टस्तां दृशा संभावयन्नयम् । गत्वाऽऽत्मशिबिरे चक्रे भोजनं सपरिच्छदः ॥१६१॥ "कुमारः कुमुदाक्षीं तामथो दाक्षीमिवेश्वरः । निरपायमुपायंस्त महेनातिमहीयसा ॥१६२॥ तत्रैव वसतस्तस्य तया सह नवोढया । अजायन्त कियन्तोऽपि वासराः सुखभास्वराः ॥१६३॥ तमन्यदा प्रमोदाश्रुपूरपूरितलोचनः ।। कुमारमब्रवीदेवं मुनिर्गद्गदया गिरा ॥१६४॥ कुमार ! जगदाधार ! प्रतिपन्नैकवत्सल ! । किं बहु ब्रूमहे मैनापमानपदं कृथाः ॥१६५॥ इयं हि काननावासकृशकौशल्यवैभवा । न्यासीकृता मया वत्स ! राशीभूतगणे त्वयि ॥१६६।। त्वत्सङ्गमाद् गुणागारमसावपि भविष्यति । मृगनाभौ गता धूलिरप्यहो सुरभीभवेत् ॥१६७॥ किञ्चान्यदहमिच्छामि प्रवेष्टुं वत्स ! पावके । जीविताद मरणं श्रेयो मादृशां जरतां यतः ॥१६८॥
20