________________
५५६]
[विवेकमञ्जरी
साऽसूत नवमे मासि पूर्णे प्रीतिमती सुताम् । प्रतिपत्तिथिसन्ध्येव चन्द्रलेखां महस्विनीम् ॥१४५॥ ऋषीणामाश्रमे जाता सुतेयं कारणादतः । पितृभ्यामृषिदत्तेति नाम तस्या विनिर्ममे ॥१४६।। ततः प्रसवरोगेण दैवयोगेन पञ्चताम् । तस्या जगाम जननी हीदृशी भवितव्यता ॥१४७॥ कृतौर्ध्वदेहिकः पन्त्याः साश्रुदृक्पङ्कजः पिता । लालयित्वा सुतामष्टवार्षिकामकरोत् क्रमात् ।।१४८|| मम रूपवतीं पुत्रीमिमां दृष्ट्वा वनेचराः । हरिष्यन्तीति संचिन्त्य तदर्थं जनकोऽञ्जनम् ॥१४९॥ चकारदृश्यताहेतोविश्वभूतिनिवेदितम् । वनेऽस्मिंस्तेन सा जज्ञे पुलिन्दानामगोचरा ॥१५०॥ युग्मम् ॥ कुमार ! सुभगाकार ! सोऽहं सेयं च कन्यका । अलक्ष्या काननेऽमुष्मिस्तवैवादत्त दर्शनम् ॥१५१॥ .. कुमारस्तामृषिसुतां स्नेहमांसलया दृशा । तथाऽपश्यत् कुमारं सा यथात्मान्योन्यमर्पितः ॥१५२॥ मुनिरप्येतयोर्भावं विभाव्य निजचेतसि । उवाच मुदितः स्मित्वा कुमारं सुकुमारगीः ॥१५३।। कुमारातिथये तुभ्यमातिथ्यमियमङ्गजा । अस्तु मे भरतायेव चक्रिणे विनमेः सुता ॥१५४|| ऋषिदत्ता तु पितरि वदतीदमधोमुखी । तदक्षवलयग्रन्थीन् गणयामास लज्जया ॥१५५।। कुमारस्तु समानीय पाणी वाणीमिमां जगौ । यदादिशन्ति पूज्यास्तत् प्रतिपन्नं मया खलु ॥१५६॥