________________
गुणानुमोदनाद्वारे ऋषिदत्ताकथा ]
गुर्विणीयं कथमिति ध्यात्वा रहसि तत्पतिः ।
तामिदं लज्जितोऽवादीद् गर्भोऽस्ति तव किं प्रिये ! ? ॥१३३॥
साप्युवाच त्रपाभारन्यञ्चदाननपङ्कजा । अस्ति किञ्चिदहं नार्यपुत्र ! ज्ञातवती तदा ॥ १३४॥ तस्मिन्नवसरे भानुमति प्रशममीयुषि । सूचीभेद्यस्तमःपुरः पूरयामास रोदसीम् ॥१३५॥ अभेदयत् तमः सान्द्रमपि चन्द्रः समुद्गतः । जलकान्तो मणिरिव प्रज्वलंस्तेजसा जलम् ॥१३६॥ भविता हन्त ! धिक्कारस्तापसेष्वावयोरतः । प्रातरन्यत्र यास्याव इत्यालोचपरायणौ ॥१३७॥
निषण्णावेव तौ वामहस्तन्यस्तमुखाम्बुजौ । निन्यतुस्तां निशां चिन्ताचान्तस्वान्तावुभावपि ॥१३८॥ युग्मम् ॥ विभातायां विभावर्यामुदिते च विभापतौ । तौ वत्सतापसैः शून्यं पश्यतः स्म तमाश्रमम् ॥१३९॥ गच्छन्नेको मुनिस्तत्र दृष्टः पृष्टो निवेदय । दृश्यते मुनिभिः सर्वैः शून्यः किमयमाश्रमः ? ॥१४०॥ अथोवाच मुनिर्भद्र ! युवयोरा श्रमस्थयोः । गृहस्थयोरिवालोक्य कर्म कर्मनिबन्धनम् ॥१४१॥ विश्वभूतिमुनिर्भूतैरिव भूतिपतिः पुरा ।
तपस्विभिः समं सर्वैरपि भेजे वनान्तरम् ॥१४२॥ युग्मम् ॥
इत्युदीर्य मुनिः सोऽपि जगाम नृपनन्दन ! | हरिषेणस्तु दयितायुतः स्वोटजमागमत् ॥१४३॥ तौ दम्पती निजं कर्म निन्दतावतिदुःखितौ । अत्यवाहयतां मासांश्चतुरो वत्सरोपमान् ॥१४४॥
[ ५५५
5
10
15
20