________________
गुणानुमोदनाद्वारे ऋषिदत्ताकथा ]
लक्षणैरेभिरवनीपर्भिवति नापरः ।
विचिन्तेयेति मुनिस्तस्मै ददावित्याशिषं तदा ॥ १०९॥
राजन् ! वृषध्वजविभुस्तव मङ्गलानि पुष्णातु सैष भुवनत्रयपूर्णकुम्भः । यस्योपकर्णमधिरोपितचूतपर्णलीलामुपैति चिकुरालिरिहालिनीला ॥ ११० ॥
मुनिरित्याशिषं दत्त्वा सोऽपृच्छदिति भूपतिम् । कुतो यूयमिहायाताः कथमेकाकिनस्तथा ? ॥ १११ ॥ पृष्टोऽथ सादरमिदं मुनिना विश्वभूतिना । सर्वं निवेदयामास प्राञ्जलिः पृथिवीपतिः ॥ ११२ ॥ इति कुर्वन् मुनिपदोपस्तिमस्ति महीपतिः । यावत् तावद् बभूवोच्चैः कानने तुमुलो महान् ॥ ११३॥ किमेतदिति साकूतमुच्छ्वस्याश्रमवासिनः । ऊचुरुत्कर्णिस्तूर्णं परस्परमुखेक्षिणः ||११४॥
[ ५५३
भविष्यत्यागतं सैन्यमेव मेऽनुपदाध्वना । विचिन्त्येति नृपो विश्वभूतिपादानदोऽवदत् ॥ ११५ ॥ इदं समागतं सैन्यमाश्रमाद् बहिरस्ति मे । दत्त्वात्मदर्शनं सुस्थीकरोमि तदहं प्रभो ! ॥ ११६॥ इत्यापृष्टे विसृष्टोऽथ मुनिना सैन्यमभ्यगात् । राजा, सैन्यमपि प्राप प्रमोदं स्वामिदर्शनात् ॥११७॥ कारयित्वा ततस्तस्मिन् सैन्यावासान् वनान्तरे । मुनिमाराधयन्नेकमस्थाद् मासमिलापतिः ॥११८॥ कुमार ! सुन्दराकारमिदं नाभेयमन्दिरम् । कारितं तेन कल्याणरत्नरोहणरोहणः ॥ ११९॥ अथास्मै गच्छते भूमीभुजे निजपुरीं प्रति । अदाद् मुनिपतिर्मन्त्रमेकमेष विषापहम् ॥१२०॥
5
10
15
20