________________
५५२]
[विवेकमञ्जरी
10
कुमारागम्यतां चैत्यादुत्तरेण ममोटजम् । अभ्यागतस्य भवतो यतः पूजावशिष्यते ॥१७॥ गत्वोटजं नृपसुतस्ततस्तदुपरोधतः । मुनेः प्रत्यग्रहीदमासीनो दत्तविष्टरे ।।९८।। मुनिरुचे ततो वत्स ! श्रूयतां महती कथा ।
चैत्यस्य मम चामुष्या कन्याया यदि कौतुकम् ॥९९॥ $$ आस्तेऽमवरावतीवेह नगरी मन्त्रितावती।
शशास नृपतिर्नाम्ना हरिषेणः सुखेन ताम् ॥१००|| तस्याऽभूद् दयिता मूर्त्या नाम्ना च प्रियदर्शना । तत्कुक्षिजन्मा पुत्रश्चाजितसेनाभिधोऽभवत् ॥१०१।। तमन्यदाऽन्यथाशिक्षः कश्चिदश्वो नरेश्वरम् ।। वाह्यालीतोऽपहृत्येहानीतवान् काननावनौ ॥१०२॥ वटप्रालम्बमालम्ब्य गच्छतोऽपि ततोऽर्वतः । अवातरद् नराधीशः स कीनाशकरादिव ॥१०३।। पुरःसरसरोनीरप्रक्षालितमुखक्रमः । क्रममाणः क्रमादेनमाश्रमं प्राविशद् नृपः ॥१०४॥ आतिथ्याय शुकप्रेर्यमाणमाणवकव्रजम् । रुरुवर्त्तितरोमन्थफेनदन्तुरितोटजम् ॥१०५।। ध्यानलीनमुनिकोडसुखासीनमृगार्भकम् । वृक्षशाखाशतालम्बितापसाधिपमण्डलम् ॥१०६॥ विशेषकम् ॥ तत्र कच्छ-महाकच्छवंशवारिधिकौस्तुभम् । नृपः कुलपति विश्वभूतिनामानमैक्षत ॥१०७।। उपसृत्य तमुर्वीशस्ततो विनयवामनः । अवन्दत युतं शिष्यैस्तरणिं किरणैरिव ॥१०८॥