________________
गुणानुमोदनाद्वारे ऋषिदत्ताकथा ]
कलङ्की रजनीजानिस्तापनस्तपनः पुनः । अनङ्गस्तु मनोजन्मा तत्कोऽयं सुभगाग्रणीः ?" ॥८५॥ अथोत्थितः कुमारोऽपि नमस्कृतजिनेश्वरः । तं मुनिं सहसा वीक्ष्य नमश्चक्रेऽतिविस्मितः ॥८६॥ आशास्य तं मुनिः प्राह वत्स ! त्वद्विरहाकुलम् । भूतलं किं कुलं किं च भवता सफलीकृतम् ? ॥८७॥
का वा त्वदभिधानेन वर्ण्या वर्णपरम्परा । केन वा कारणेनात्र भवगदामनोत्सवः ? ॥८८॥ इत्युदीर्य स्थिते तंत्र मुनो वाग्मीति मागधः । सर्वं निवेदयामास कुमारे लज्जया नते ॥८९॥ अत्रान्तरे कुमारस्तां जटाभारैस्तिरोहिताम् । पक्ष्मलाक्षीमथाद्राक्षीच्चक्षुः कुमुदकौमुदीम् ॥९०॥ ततोऽसौ विस्मयानन्दामोदमेदुरमानसः । पप्रच्छेति मुनिश्रेष्ठं प्राञ्जलं रचिताञ्जलिः ॥९१॥ मुने ! केनेदमसमं कारितं जिनमन्दिरम् । अटव्यामपि, के यूयं केयं कन्या च कथ्यताम् ? ॥९२॥ अथोवाच मुनिर्वत्स ! महतीयं कथास्ति नः । देवपूजां पुरः कुर्मः क्षणं तावत् प्रतीक्ष्यताम् ॥९३॥ ओमित्युक्तवति क्षोणीपालपुत्रे पवित्रधीः । प्रविश्यान्तस्तया सार्धं देवपूजां मुनिर्व्यधात् ॥९४॥ सा कुमारं कुमारस्तां मुहुकर्वलितकन्धरम् । ईक्षाम्बभूव धवलैश्चपलैर्लोचनाञ्चलैः ||१५|| ततो निर्मिततीर्थेशसपर्याविधिरम्बुजैः । आगत्य मण्डपे भूपनन्दनं मुनिरब्रवीत् ॥ ९६॥
[ ५५१
5
10
15
20