SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ [५४९ 10 गुणानुमोदनाद्वारे ऋषिदत्ताकथा] तदन्वाम्रवणं भूपनन्दनो बन्दिनो गिरि । दत्तकर्णः क्रमेणाप ससखो निकषा सरः ॥६१॥ तदन्तश्चरनिर्दिष्टलतान्तरितविग्रहः । तां ददर्श तथैवैष विस्मितश्चेत्यचिन्तयत् ॥६२।। "यदीयं स्वर्वधर्नेत्रमाला तत्सफला हरेः । भोगी स एव भोगीशस्तन्वीयमुरगी यदि ॥६३।। स्त्रीरत्नमीदृशं मर्त्यलोकेऽस्मिन् घटतेऽपि न । कर्पूरपूरः किमहो जायते लवणाकरे ? ॥६४॥ यदि वा मानुषीयं तदस्या वेधा न वास्तवः । पटुः कर्मणि कुग्रामे कुविन्दः किं नु विन्दति ?" ॥६५॥ इति चिन्तासमाचान्तचेता यावन्नृपात्मजः । तदर्शनसुखेनास्ति सैन्यं तावदुपाययौ ॥६६।। तुरङ्गखुरकुद्दालदारितावनिरेणुभिः । तद् वनं पुनरावृत्तरात्रिध्वान्तैरिवानशे ॥६७॥ आयातसैन्यतुमुलमाकर्ण्य भयसम्भ्रमात् । साऽनेशत् तरुणी तोयकरिणीव वनान्तरे ॥६८॥ स:परिसरक्षोणिमण्डले तरुमण्डले । उत्प्रयाणमथो तत्र चमूरपि चकार सा ॥६९॥ कुमारस्तु वरेणेव स्मरेणकृष्टमानसः । संभ्रमी बंभ्रमीति स्म तामपश्यन् सुलोचनाम् ॥७०॥ भ्रमन्नुर्वीरुहामन्तः कुमारो मारविह्वलः । चैत्यं केतुकरेणाऽऽकारयदेकमलोकत ॥७१॥ एतस्मिन् भविता सापि भामिनी सुरसद्मनि । विचिन्त्येति विवेशायं तदन्तः क्षितिपात्मजः ॥७२॥ 15 20
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy