________________
[५४७
गुणानुमोदनाद्वारे ऋषिदत्ताकथा ]
तदानीं सोऽपि संतज्य राज्यं प्राज्यविरागवान् ।
प्रव्रज्य च शिवं प्राप तीर्थे तीर्थकृतो नमः ॥३७॥ $$ कुमारोऽपि व्रजन्नेकामटवीमटति स्म सः ।
सैहिकेयभियेवास्यां नार्केन्दू किरतः करान् ॥३८॥ तदन्तरे महीनाथसूनोरथ वरूथिनी । आवास्य तामरण्यानीमकरोद् नगरीनिभाम् ॥३९॥ सायाह्ने च समागत्य सभासीनं नृपात्मजम् । प्रणेमुर्जलवीक्षायै प्रस्थापितचराश्चराः ॥४०॥ तानवादीत् कुमारोऽपि प्रसादाञ्चितया गिरा । किं चिरेण समायाता यूयं, तेऽपीदमूचिरे ॥४१॥ जग्मिवांसो वयं देवादेशतः स्थानकादतः । अपश्यामैकमम्भोधिसदृशं प्रान्तरे सरः ॥४२॥ तत्र यामो वयं यावत् तावच्चूतवनान्तरे । वनश्रियमिवाद्राक्ष्म दोलाकेलिं वितन्वतीम् ॥४३॥ स्वर्वधरूपविजयादुदस्तमिव केतनम् । बिभ्रती कबरी लोलायितामेकां सुलोचनाम् ॥४४॥ युग्मम् ॥ विलोक्य सहसाऽकस्मादस्मान् वनमृगीव सा । अलक्षितगतिः क्वापि तरुकुञ्ज तिरोदधे ॥४५।। विलोकयद्भिरथ तत् काननं तरुणा तरुम् । नैव सा ददृशेऽस्माभिर्गतभाग्यैरिवौषधीः ॥४६॥ वेलाऽलगदतोऽस्माकं हेलाविजितशात्रव ! । इत्याकर्ण्य कुमारोऽपि विस्मयोत्तरलोऽभवत् ॥४७॥ अत्रान्तरे च तरणिः पत्रैरापीय वारुणीम् । मुक्ताम्बरोऽपरोदन्वत्तटे क्षीब इवालुठत् ॥४८॥