________________
५४६]
[विवेकमञ्जरी
10
इत्युदीर्य स्फुरद्धैर्यः कुमारः स्फारमत्सरः । अधारयद् गले दूतमथ नूतनविक्रमः ॥२५॥ गत्वाऽऽचख्यौ स दूतोऽपि स्वामिने युद्धकामिने । .. कुमारोदन्तमखिलं सम्परायभियां खिलम् ॥२६॥ . दूताख्यातमथ श्रुत्वा कुमारं प्रति भूपतिः । उच्चचाल चमूपांशुप्रकारच्छन्नभास्करः ॥२७॥ वाताश्विभिः परिज्ञाय तमायान्तं रणेच्छया। स्माभिषेणयति क्षोणिपालसूरपि वैरिणम् ॥२८॥ वक्षसीव जगत्त्रय्या व्योम्नि पीनपयोधरे । तदाश्वीयखुरोधूता धूलिः कम्बुकतामगात् ॥२९॥ अथ तुल्यप्रतिद्वन्द्वी युगान्तप्रतिचारकः । मिथो मिलितयोरासीद् दारुणः सैन्ययो रणः ॥३०॥ तूर्यताम्रानकध्वानक्ष्वेडाबृहितहेषितैः । तदा नादमयं विश्वमिदं विश्वमजायत ॥३१॥ घनाघनेषु वर्षत्सु शरेषु शरधोरणीम् । विपक्षवाहिनीहंसैरुड्डीयोड्डीय निर्गतम् ॥३२॥ अथोच्चैर्धार्यमाणोऽपि वल्गाचालिभिरञ्जसा । गत्वाऽरिदमनं प्राह कुमारोऽसमसाहसः ॥३३॥ रे संग्रामसरोभेक ! विवेकविकलाकृते !। . आगतोऽयमसि सचिकीस्त्वां भुजगो मम ॥३४॥ वदन्निति पराजित्य कृतायुधमनायुधः । अग्रहीद् विग्रही जीवग्राहमेवारिभूपतिम् ॥३५॥ अथ दत्त्वा प्रयाणानि वीरः कतिपयानि सः । तं मुमोच पुना राज्यभाजनीकृत्य भूपतिम् ॥३६।।
15