SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ [५४५ गुणानुमोदनाद्वारे ऋषिदत्ताकथा] क्रमतो गच्छतरस्य प्रयाणैरविलम्बितैः । आवासाञ्जगृहे सैन्यं सीमान्तवनभूमिषु ॥१३॥ उत्तार्यमाणभारेषु रवणेषु विराविषु । परितस्ताड्यमानासु पटमण्डपपङ्क्तिषु ॥१४॥ उत्पर्याणितपृष्ठेसु वेल्लत्सु भुवि वाजिषु । स्तम्भमानीयमानेषु कुञ्जरेषु निषादिभिः ॥१५॥ वेत्रासनमलङ्कृत्य स्थितं चूततरोस्तले । कुमारं कश्चिदागत्य दूतः साकूतमब्रवीत् ॥१६॥ विशेषकम् ॥ कुमार ! पौरुषाधार ! तवारिदमनो नृपः । समादिशति वीराणां गणनासु धुरि स्थितः ॥१७॥ यदस्मद्देशसीमान्तप्रवेशस्तव मृत्यवे । मृगस्येव मृगारातिगृहान्तरविहारिता ॥१८॥ युद्धश्रद्धमतेस्तत् त्वं मम रे रे पुरो भव । यद्यसि प्रधनाकाङ्क्षाकण्डूलभुजमण्डलः ॥१९॥ ममाज्ञामथवाऽऽदाय निवर्तस्व गृहान् प्रति । पुत्रशोकानभिज्ञाऽस्तु जननी ते तपस्विनी ॥२०॥ वचस्यवसिते तस्य भ्रकुटीभीषणाननः । कुमारः स्माह हे दूत ! गत्वा ते कुलपांशनम् ॥२१॥ आत्मनः स्वामिनः ब्रूहि यदयं नृपनन्दनः । त्वमेव हन्तुमायातो वैनतेय इवोरगम् ॥२२॥ युग्मम् ।। यदाज्ञा भुवनभ्रान्तिश्रान्तेव रिपुमौलिषु । विशश्राम स मे हेमरथस्तातोऽद्य लज्जते ।।२३।। यदि त्वयि समायाते क्रममाकर्षयाम्यहम् । स्थितोऽहमेष संनह्य युद्धकौतुकतर्षितः ॥२४॥
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy