SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 ५४४] अथ ऋषिदत्ताकथा $$ अस्तीह भरतक्षेत्रे देशो नाभिनिवेशभूः । मध्यदेश इति ख्यातो मध्यदेश इवावनौ ॥१॥ पुरं तत्रास्ति विपदां मर्दनं रथमर्दनम् । दानकोविदयत्पौरच्छात्राः कल्पद्रुमादयः ॥२॥ तस्मिन्नासीत् किल महारथी हेमरथो नृपः । यस्यासिर्भुजगः क्षोणीभुजां लक्ष्मीमकामयत् ॥३॥ स्वरूपविजितानङ्गवल्लभा वल्लभाऽभवत् । सुयशाः सुयशास्तस्य त्रस्यदेणविलोचना ॥४॥ सुतस्तयोस्तु कनकरथोऽजन्यनिरुद्धरुक् । येनारिबाणसंभूतिरुषा कीर्तिः कृता करे ॥५॥ इतः पुर्यस्ति कावेरी कौबेरीव पुरी श्रिया । सुन्दरपाणिः पृथिवीपतिः पालयति स्म ताम् ॥६॥ पौलोमी वासवस्येव वासुला तस्य वल्लभा । असूत रुक्मिणीं नाम तनयां तविषीमिव ||७|| सुतामुद्यौवनां वीक्ष्य तामथो पितुरन्तिके । प्राहिणोज्जननी सर्वाङ्गीणाभरणधारिणीम् ॥८॥ कृतप्रणामामारोप्य तनयामङ्कमञ्जसा । विलोक्य च नृपोऽपीति चिन्तयामास चेतसि ||९| कस्मै वराय दातव्या यौवनस्थेयमङ्गजा । हुं ज्ञातमस्ति कनकरथो हेमरथात्मजः ॥१०॥ अस्याः स एव सगुणः पतिर्भवति नापरः । इति मन्त्रिभिरालोच्य तस्मै दूतं विसृष्टवान् ॥११॥ दूताहूतोऽथ कनकरथः स्वपितुराज्ञया । सद्यश्चचाल कावेरीं प्रति सैन्यैरनुद्रुतः ॥१२॥ [ विवेकमञ्जरी
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy