________________
[५४३
गुणानुमोदनाद्वारे सुभद्राकथा]
स्तुत्वा नत्वा च तां धर्माधिष्ठात्रीमिव देवताम् । स्वं स्वं स्थानमगुर्लोका यशांसि तु दिगन्तरम् ॥५९॥ सप्रश्रयं च श्वशुरश्वश्रूवर्गननान्दृभिः । सुभद्राऽमान्यतानन्दात् पितृभ्यां चाभ्यनन्धत ॥६०॥ पत्यापि क्रमयोर्निपत्य निभृतं सा क्षामिता नामिता, अन्तर्वैरिव्यसना निरस्तवृजिनावस्था गृहेऽस्थाच्चिरम् । कालेनापि च सद्गुरोर्वतमवाप्यादाय चोग्रं तपः, क्षीणायुर्भजति स्म शर्मपदवीं भद्रां सुभद्रा गतिम् ॥६१॥
॥ इति सुभद्राकथा ॥