________________
5
10
151
20
५४२ ]
कृष्यमाणस्तु तितओस्तोयलेशोऽपि नापतत् । तस्या विद्वेषिणां त्वास्यात् पानीयमगलत् तदा ॥४७॥
पानीयच्युतिहेतूनिच्छिद्राणि तितओरपि । प्यधात् तूर्णं गुणं चाधात् सुभद्रा सुप्रभावतः ॥४८॥ तद् मत्वाऽभ्येत्य भूपालस्तामुवाच महासति ! | उद्घाटय कपाटानि पुण्यानीव प्रसीद नः ॥४९॥ ततः पौरनृपामात्यैः सुभद्रा परिवारिता । ययौ पूर्वप्रतोल्यां साचालन्या बिभ्रती जलम् ॥५०॥ नमस्कारपुरस्कारमियं तत्र महासती । कपाटे चालनीतोयचुलुकैस्त्रिभिराहत ॥५१॥ कपाटे ते सुभद्राया गुणस्तुतिपरे इव । कुर्वती क्रौञ्चनिनदमुद्धटेते स्म तत्क्षणात् ॥५२॥ दिवि दुन्दुभयो नेदुरासेदुः पुष्पवृष्टयः । महासति ! महापुण्ये ! जयेति च जगुः सुराः ॥५३॥ स्तूयमाना दिवि सुरैर्नरैश्च भुवि सा ततः । प्राग्वदुद्घाटयाञ्चक्रेऽपाचीप्रत्यक्प्रतोलिके ॥५४॥ गत्वोदीचीं पुनः प्राह सती काचित् कुतश्चन । अभ्येत्योद्घाटयेदेनां विभागस्तत्कृतेऽस्त्वयम् ॥५५॥ चम्पायां सा तथैवास्तेऽद्यापि बद्धा प्रतोलिका । सुभद्रायाः किल श्वश्रूमुखमुद्रानुकारिणी ॥ ५६ ॥ रत्नत्रयमिवोद्घाट्य मोक्षायेव शिखात्रयम् । चकार श्रीमतीं चैत्यपरिपाटीमियं ततः ॥५७॥
सुभद्रा चन्द्रलेखेव निष्कलङ्का नृपादिभिः । धिष्ण्यैरिव परीताऽऽगाद् मन्दिरं स्वमुदिन्दिरम् ॥५८॥
[विवेकमञ्जरी