________________
५४०]
[विवेकमञ्जरी
10
अचिन्तयच्च यद्येषा कुलीना श्राविकापि च । एवं व्यवस्यति स्रस्तं तद् धर्मकिलिकिञ्चितम् ॥२३॥ सुभद्रापि विदित्वेति वैमनस्यं स्वभर्तरि । निष्कलङ्का कलङ्काप्तिखेदादेवमचिन्तयत् ॥२४॥ "गृहस्थानां विषयिणां कषायनटितात्मनाम् ।।
अस्मादृशां कलङ्को यत् तत्र किं नाम कौतुकम् ? ॥२५॥ यत् पुनः कथमप्यत्र पवित्रे जिनशासने । अद्योन्मिमील मालिन्यं तद् दुनोति मनो मम" ॥२६॥ चिन्तयित्वेति सन्ध्यायामभ्यया॑र्चा गृहेऽर्हताम् । प्रत्यज्ञासीदिति स्थित्वा पवित्रे सा महीतले ॥२७।। लक्ष्म प्रवचनस्योच्चैरिदं यावत् कथञ्चन । नापनीतममुं तावद् नोत्सर्गं पारयाम्यहम् ।।२८।। यदि शासनदेव्यस्ति तद् मे प्रादुर्भवत्वसौ । इहानशनमेतद् मेऽत्र भवे तथ्यमन्यथा ॥२९॥ इति यावत् क्षणं तस्थावुत्सर्गेण महासती । तावच्छासनदेव्यागाद् द्योतयन्ती दिवं त्विषा ॥३०॥ बभाषे च सुभद्रेऽहं वत्से ! शासनदेवता । आगता त्वत्प्रभावेण सुवाणि ! करवाणि किम् ? ॥३१॥ सुभद्रापि विलोक्यैतां वन्दित्वा च जगौ मुदा । जिनशासनमालिन्यमपनेतुं त्वमर्हसि ॥३२॥ वत्से ! मा त्वं विषीदेथाः करिष्येऽहं तथा प्रगे। यथा ते पूर्यते वाञ्छेत्युक्त्वा देवी तिरोऽभवत् ॥३३॥ समं प्रतिज्ञयोत्सर्गं पारयित्वाऽथ सा सती । धर्मध्यानपराऽत्यन्तं यामिनी तामनीनयत् ॥३४॥
15
20