SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ [५३९ गुणानुमोदनाद्वारे सुभद्राकथा ] बुद्धदासस्तमूचेऽथ तात ! तौ किं करिष्यतः । पृथगोकःस्थितामेतां धारयिष्यामि ते सुताम् ॥११॥ जिनदत्तानुमत्याथ तेन सा पृथगाश्रये । मुक्ता मुक्तावलीवान्यवास:कोशे परीक्षिणा ।।१२।। भक्तादिहेतवे साधूनायातो वीक्ष्य तद्गृहे । पितरौ बुद्धदासस्य मत्सरादिदमूचतुः ॥१३॥ वधूस्ते व्रतिभिः साकमेकान्ते रमतेऽनिशम् । स्वायत्तं हि गृहं वत्स ! स्त्रीणां कौलट्यकारणम् ॥१४॥ अथाह बुद्धदासस्तौ चेच्चलन्ति कुलाचलाः । तथापि नात्मनः शीलं श्राविकेयं विलुम्पति ॥१५।। श्रुत्वेति नितरां तस्य पितरौ मौनमास्थितौ । दष्टुकामौ महासुन्द्रकुलजाविव भोगिनौ ॥१६॥ ६६ अथैकदा सुभद्रायाः सदने क्षपको मुनिः । विहरन्नविशद् भृङ्ग इव पद्म विकस्वरे ॥१७॥ वात्यया दृष्टिगं तस्याप्रतिकर्मतनोरभूत् । तृणं तच्च समीक्ष्येति सुभद्रा हृद्यचिन्तयत् ॥१८॥ महासत्त्वस्य दृग्बाधा भवित्री तृणतोऽमुतः । तदेतद् ददती भिक्षामपनेष्ये रसज्ञया ॥१९॥ तच्चक्रे च सुभद्राऽस्याः किन्तु सीमन्तकुङ्कमम् । क्षपकस्यालिके लेगे वेगेनाऽज्ञासतां (?) न तौ ॥२०॥ मुनि भालस्थकालेयं दर्शयन्ती जनन्यथ । बुद्धदासं जगौ वत्स ! त्वं किमद्यापि वक्ष्यसि ? ॥२१॥ ततस्तत्प्रत्ययाद् बुद्धदासो बुद्ध्वाऽसतीमिमाम् । जज्ञे स शिथिलप्रेमा सुभद्रायामभद्रधीः ॥२२॥ 15
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy