SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ 5 सम्प्रति तु सुभद्रा यथा— 10 15 20 25 ५३८ ] रेवती तु ख्याता, यया भगवतोऽतीसारशान्त्यै विविधौषधसंस्कृतोत्कूरकूष्माण्डं लोहार्यः प्रतिलाभितः । देवकी तु विष्णुमाता विदितैव ! ज्येष्ठा सुज्येष्ठा च चेल्लणाभगिन्यौ पूर्वोदिते । पद्मावती तु करकण्डुमाता कथिता । नन्दात्वभयकुमारमा तोपदिष्टैव । भद्रा च शालिभद्रजननी प्राक् प्रतिपादिता ॥ [विवेकमञ्जरी $$ अस्ति दत्तद्विषत्कन्था पुरी चम्पाऽत्र विश्रुता । जितशत्रुरभूत् तस्यां निःसामान्यो विशां पतिः ॥१॥ जिनदत्ताभिधश्चासीत् तत्रासीमधनो धनी । निरन्तरं जिनोपज्ञधर्मधन्यक्रियापरः ||२|| तस्याभूद् दुहिता रूपसहिता महिता गुणैः । सुभद्रा शशभृद्भद्राकारवक्त्रसरोरुहा ॥३॥ बुद्धभक्तेश्च तनयो बुद्धदासाभिधोऽन्यदा । वातायनगतामेतामपश्यदमरीमिव ॥४॥ अनुरक्तेन सा तेन जिनदत्तादयाच्यत । जिनदत्तस्तु नादत्त तस्मै वैधर्मिकाय ताम् ॥५॥ कैतवाद् बुद्धदासोऽथ वरिवस्यन् मुनीश्वरान् । सुभद्रापात्रताप्राप्त्यै श्रावकत्वमशिश्रियत् ॥६॥ अश्रद्धयापि सिद्धान्तं श्रुत्वा बोधिमवाप सः । अरुच्याप्यमृतं पीतममरत्वं प्रयच्छति ॥७॥ जिनधर्मप्रियायास्मै जिनदत्तेन तोषिणा । अदीयत सुभद्रा तामुपायंस्त स विस्तरात् ॥८॥ वासरेभ्यः कियद्भ्योऽथ बुद्धदासो विनीतवाक् । जिनदत्तं जगौ नेतुं सुभद्रामात्मवेश्मनि ॥९॥ तमाह जिनदत्तोऽपि वत्स ! त्वं युक्तमुक्तवान् । परं त्वत्पितरौ बौद्धौ किलैनां दूषयिष्यतः ॥१०॥
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy