________________
गुणानुमोदनाद्वारे कलावतीकथा ]
शुकजीवो दिवरच्युत्वा राजा शङ्खोऽभवद् भवान् । पुनः सुलोचना जीवोऽजायतेयं कलावती ॥ २९९॥ यत् पूर्वजन्मनि कलावत्या पक्षौ शुकस्य ते । कृत्तौ ततस्त्वयाऽप्यस्याः कृत्तावस्मिन् भवे भुजौ ॥ ३००॥ शुभस्याप्यशुभस्यापि कर्मणः प्राक्कृतस्य हि । विपाकः खलु जायेत दशधा बहुधापि वा ॥ ३०९ ॥ तौ दम्पती निशम्येति जातजातिस्मृति ततः । विरक्तौ गृहवासस्य संयमायोदतिष्ठताम् ॥ ३०२ ॥ राज्येऽस्मिन् विनिवेश्य पूर्णकलशं भूमण्डलस्योच्चकैर्भारं मन्त्रिषु च प्रयोज्य परितः पौरानथापृच्छ्य च । पादान्तेऽमिततेजसो व्रतमुपादायायुषोऽन्ते दिवं, यातौ तौ क्रमयोगतः शिवपदं सिद्धास्पदं यास्यतः ||३०३ ||
॥ इति कलावतीकथा ॥
[ ५३७
5
10