SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 ५३६ ] ब्रुवन् 'नमोऽरिहंताणं' इत्युड्डीय विहायसा । गृहीतनियमो नन्तुं जगाम जिनपुङ्गवम् ॥२८७॥ युग्मम् ॥ नत्वा सीमन्धराधीशमुद्याने कुसुमाकरे । प्रीतः कुर्वन् फलाहारं स्वेच्छया विजहार सः ॥ २८८॥ ततः सुलोचना तस्मिन्नुड्डीने क्रन्दति स्म सा । ततस्तमन्वधावंश्च पत्तयोऽस्याः खगा इव ॥ २८९॥ छन्नं छन्नं चरद्भिस्तैरुद्याने कुसुमाकरे । दृष्टः पाशिकया बद्ध्वाऽऽनीतश्चायं तदन्तिके ॥ २९०॥ तेभ्यस्तं सा समादाय मन्मनस्वरमब्रवीत् । मां विहाय गतोऽभूस्त्वं क्व रे शठ ! निवेदय ॥ २९९॥ यद् गतं तदेव त्वं स्मरेर्नातः परं पुनः । कामचारिन् ! न दास्यामि दास ! गन्तुं बहिस्तव ॥२९२॥ इत्युक्त्वा गतिभङ्गाय तस्य पक्षावलावयत् । सा चिक्षेप च तं सद्यः कारायामिव पञ्जरे ||२९३ || कोऽथ चिन्तयामास धिक् पराधीनतां मम । स्वाधीनः सत्क्रियां पापो नाकार्षमधमस्तदा ॥ २९४॥ सहिष्ये त्वधुना नैकप्रकारेण विडम्बनाः । लप्स्ये न वीक्षितुमपि वीतरागमुखाम्बुजम् ॥२९५॥ इति चिन्तामहादुःखपतितोऽयं शुकोत्तमः । अश्रूणि मुमुचे ग्रस्तशिखराणि वमन्निव ॥२९६॥ अथानशनमादाथ पञ्चषैर्दिवसैरयम् । मृत्वा सौधर्मकल्पेऽभूद् देवः स्वल्पेतरद्युतिः ॥२९७॥ सुलोचनापि सा तस्य दुःखेनानशनं श्रिता । मृत्वा तस्यैव देव्यासीत् तौ स्वर्भोगान् विलेसतुः ॥२९८॥ [ विवेकमञ्जरी
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy