________________
[५३५
गुणानुमोदनाद्वारे कलावतीकथा]
पञ्जरस्थं कदाप्यङ्कस्थं करस्थं कदापि च । उर:स्थं च कदाप्येषा कौतुकात् तमपाठयत् ॥२७५।। आसने शयने याने भोजने राजसंसदि । सा तं निजात्मवत् क्वापि नामुचद् नृपनन्दनी ॥२७६।। अन्यदाऽसौ पुरोद्याने कुसुमाकरनामनि । जगाम पञ्जरस्थेन तेन साकं सखीवृता ॥२७७॥ तत्र सीमन्धरस्वामिजिनं नन्तुं जिनौकसि । सुलोचनाऽविशद् देवाधिदेवं सोऽप्यलोकत ॥२७८॥ अथासौ चिन्तयामास क्वापीग् नयनामृतम् । दृष्टमासीद् बहु मया बिम्बं दैवतमद्भुतम् ॥२७९॥ इत्यूहापोहलीनोऽयमस्मरज्जातिमात्मनः । अधीती सर्वशास्त्रेषु यत् पुराऽऽसमहं व्रती ॥२८०॥ अपठं केवलं शास्त्रमकार्षं न पुनः क्रियाम् । पुस्तकोपधिसंग्राहमू»संलीनमानसः ॥२८१॥ विराधितव्रतो मृत्वा शुकोऽहमभवं वने । सनीडं मुक्तपाठत्वाद् नीडजोऽपीह पाठकः ॥२८२॥ धिगहं ज्ञानदीपेऽपि करस्थे तमसाऽन्धितः । स्खलच्चरणसंचारोऽपतं तिर्यग्भवावटे ॥२८३।। अधुनापि वरं जातं यद् दृष्टः परमेश्वरः । दृष्ट्वैनं चूणिमादास्ययेऽतः परं नियमो मम ॥२८४।। इति स्वयमुपात्तोग्रनियमनामुना सह । सुलोचना जिनं नत्वा निजावासमुपाययौ ॥२८५॥ परेधुः पञ्जरात् कृष्ट्वा तं करे न्यस्य राजसूः । यावद् भोक्तुमुपाविक्षत् तावदेष शुकः क्षणात् ॥२८६।।