________________
[विवेकमञ्जरी
५३४]
ततो मुनीन्दुममिततेजसं ज्ञानतेजसम् । नत्वैतत्पुरतो भक्त्या दम्पती तौ निषेदतुः ॥२६३।। धर्मलाभाशिषं दत्त्वा स खण्डितभवापदम् ।
सद्धर्मदेशनां चक्रे मुनिचक्री तयोः पुरः ॥२६४।।. 5 8 अथापृच्छद् महीपालः प्रभो ! किं पूर्वजन्मनि ।
कलावत्या कृतं येन मयाऽस्याश्छेदितौ भुजौ ? ॥२६५।। अथ ज्ञानोपयोगेन मुनिराह महीपते ! । आस्ते महाविदेहोर्त्यां माहेन्द्रमिति पत्तनम् ॥२६६।। तत्रासीत् त्रासितारातिर्नृपतिर्नरविक्रमः । प्रिया लीलावती तस्यासूत पुत्री सुलोचनाम् ॥२६७॥ सा प्रकृत्याऽऽस्तिका धर्मे रता कुतूहलेषु च । बाल्य-यौवनयोः सन्धिवयः प्रापातिबन्धुरम् ॥२६८।। एतस्यामन्यदोत्सङ्गस्थितायामवनीपतेः । शुकोऽतिसुन्दराकार: केनचित् प्राभृतीकृतः ॥२६९॥ स तु राज्ञा करे कृत्वा पाठितः कौतुकार्थिना । पपाठ क्रममुत्पाट्य दक्षिणं पक्षिणां वरः ॥२७०॥ स्वःसिन्धुयोगपट्टा स्व:पथदण्डोडुशङ्खमणिभूषा । दधती कपालमिन्दुं कीर्तिस्ते योगिनी जयति ॥२७१।। श्रुत्वेति रञ्जितो राजा तदानेतुस्तदा ददौ । स्वाङ्गलग्नमलङ्कारं द्रविणं च मनोतिगम् ॥२७२।। शुकं तु निजनन्दन्या मेदिनीन्दुरथार्पयत् । सापि गत्वा निजावासेऽक्षिपत् कनकपञ्जरे ॥२७३।। दाडिमीफलबीजानि शर्कराशकलानि सा । चूणयामास तं द्राक्षापानकादीन्यपाययत् ॥२७४॥
20