SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ गुणानुमोदनाद्वारे कलावतीकथा ] “सराष्ट्रमपि मामद्य मज्जन्तं मरणाम्बुधौ । दिष्ट्याऽऽगत्योरुफलका भवती नौरिवोद्दधात् ॥२५१॥ कृतरोषं विना दोषं कानने त्याजितासि यत् । विडम्बितासि यच्चैवं मम देवि ! क्षमस्व तत्" ॥२५२॥ मनयित्वेति तां याप्ययानारूढां महासतीम् । नृपः प्रवेशयामास पुरं प्रीतिभरोत्तरम् ॥२५३॥ एत्यैत्य वार्धिवीचिभिर्मलयाद्रितटीव सा । अवर्धाप्यत पौरीभिर्मुक्तारत्नैरवेधिभिः || २५४|| अथ स्वप्नानुसारेण स्वसूनोर्द्वादशेऽहनि । विदधे पूर्णकलश इति नामावनीपतिः ॥२५५॥ 'अथान्यदा महीनाथमाहैकान्ते कलावती । कुतो दोषात् त्वया नाथ ! दण्डो मेऽकार्यतेदृश: ? ॥२५६॥ अथाह मनुजापीडः सव्रीडमवनीपतिः । त्वयि बालेन्दुलेखायामिव लक्ष्म न हि प्रिये ! ॥ २५७॥ परं तवात्मनो वापि केनचित् पूर्वकर्मणा । प्रेरितोऽहं व्यधामन्धो यत् कुर्यादन्त्यजोऽपि न ॥२५८॥ तस्योदयालवालस्तु तदयं यत् त्वया प्रिये ! व्याख्यातं जयसेनाख्यां विनैवाङ्गदयोर्युगम् ॥२५९॥ पुरातनं तु यत् कर्म तवापि ज्ञास्यतेऽधुना । यतोऽस्त्यतिशयज्ञानी नगरोपवने मुनिः " ॥ २६०॥ 44 ततः कलावतीत्यूचे तर्ह्यावां तं मुनीश्वरम् । नन्तुं यावश्च पृच्छावः कृतं यद् दुष्कृतं पुरा ॥२६१॥ इति तौ दम्पती याप्ययानमारुह्य सत्वरम् । जग्मतुर्नन्दनोद्याने श्रीदेवं नेमतुर्जिनम् ॥२६२॥ [ ५३३ 5 10 15 20
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy