________________
५३२]
[विवेकमञ्जरी
10
अथाह गुरुरुवीश ! भवन्तं कल्पपादपम् । छिन्ना वल्ली प्रिया जातसूनः पल्लवितैष्यति" ॥२३९॥ श्रुत्वेति नृपतिः प्रीतः पुनरभ्येत्य सत्वरम् । दत्तं दत्ताश्वपादातं प्रियामन्वेष्टुमादिशत् ॥२४०॥ ..... वनाद् वनमयं भ्राम्यन् दृष्ट्वा तापसमब्रवीत् । मुने ! दृष्टा त्वया क्वापि काप्येकाऽस्मिन् वने वधूः ? ॥२४१।। स प्राह किं तया कार्यं दत्तोऽप्यूचे प्रमोदभाक् । भूपतेविंशतो वह्नावह्नाय प्राणरक्षणम् ॥२४२॥ एवमाकर्ण्य कारुण्यात् तेन नीत्वैनमाश्रमे । दत्ताय दर्शिता सा तं दृष्ट्वाऽरोदीत् कलावती ॥२४३॥ दत्तोऽवादीदिमां मा स्म रोदी: स्वसरिदं यतः । त्वदाक्रन्देन हृदयं भवतीव द्विधा मम ॥२४४॥ भवती स्वयमेवेति वेत्ति यत् पूर्वकर्मतः । नार्हन्तोपि च्छुटन्त्यन्ये देहिनः के तपस्विनः ? ॥२४५॥ विवेकवसते ! देवि ! तदलं परिदेवितैः । प्रसीदागत्य सीदन्तं नृपमाश्वासयात्मना ॥२४६॥ किमन्यदनुतापेन तप्यमानोऽवनीपतिः । स्थापितोऽस्ति विशन् वह्नि दिनमद्यतनं बलात्" ॥२४७॥ श्रुत्वेति नृपकारुण्यपूरोन्मूलितमानधीः । कलावत्याकुलीभूताऽऽपृच्छत् कुलपतिं किल ।।२४८।। दत्त्वाशिषमनेनापि प्रेषिता मुदितात्मना । साङ्गजा स्वपुरोपान्ते दत्तेन सममागमत् ॥२४९॥ सप्रद्युम्नां श्रियमिव सजयन्तां शचीमिव । तामभ्येत्य नृपोऽवादीदश्रुपूर्णविलोचनः ॥२५०॥
15