SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ गुणानुमोदनाद्वारे कलावतीकथा ] इति विज्ञापितस्तेन राजा रञ्जितमानसः । समयोचितमातेने तत् तथाशु यथाविधि ॥२२७॥ प्रणम्य सपरीवारे निविष्टेऽथ महीपतौ । व्यधादतिशयज्ञानी मुनीन्दुरिति देशनाम् ॥२२८॥ " राजन् ! कर्मवशाज्जीवपात्राण्यायान्ति यान्ति च । गर्भाधिवासनेपथ्ये गत्यङ्के भवनाटके ॥२२९॥ श्रृङ्गारादिरसैः स्थायिभावैश्चात्र किलाष्टभिः । जीवैर्विगुप्यते कर्म पात्रीभूय मुधैव हा ! ॥ २३०॥ रसं शान्तं शमं स्थायिभावं च नवमं यदा । श्रयन्त्येते तदेहापि जायन्ते महिमास्पदम् ॥२३१॥ नीचोऽप्यनुहरन् हन्त महान्तमतिरिच्यते । ग्रावापि देवताकारधरः पश्य नमस्यते ॥ २३२ ॥ तद् विहाय महीपाल ! नीचाभिनयमात्मना । उच्चाभिनयमातन्वन्नुच्चैः पदपदं भव ॥२३३॥ दुष्प्रापमाप्य मानुष्यं मा कृथा नृपते ! वृथा । अचिरेणाद्भुतश्रेयोभाजनं भविता भवान् ॥ २३४॥ श्रुत्वेति श्रुतिपीयूषमुवाच नृपतिस्ततः । अस्त्वेतद् माननीया हि मुनयो ज्ञानचक्षुषः " ॥ २३५॥ 'अथ रात्रौ विशश्रामोद्याने तत्रैव भूपतिः । 44 दृष्ट्वा स्वप्नं पुनः प्राप्त श्रीगरीयानजागरीत् ॥२३६॥ गत्वा च गुरुपादान्ते कान्तेन विनयेन सः । तं स्वप्नमवनीखण्डशचीपतिरचीकथत् ॥ २३७॥ यथैका पतिता छिन्ना व्रततिः कल्पपादपात् । अपूर्णैकफलाऽथास्मिन् पूर्णा पूर्णफलाऽभवत् ॥२३८॥ [ ५३१ 5 10 15 20
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy