________________
5
10
15
20
५३० ]
श्रुत्वेति दुःश्रवं पौरान्तःपुरामात्यलक्षणः । लोकः शोकपरोऽस्तोकपूत्कारमुखरोऽजनि ॥२१५॥ “अथो गजादयः पौराः सुमन्त्राद्याश्च मन्त्रिणः । नृपं विज्ञपयामासुः संभूय सकदाग्रहम् ॥२१६॥
एकं तावदभूद् देव ! यद् मृता सा कलावती । द्वितीयं मा कुरु स्वामिन् ! प्रजान्तं निजमृत्युना ||२१७॥ तदपि क्रियते स्वामिन्नवाप्येत यदि प्रिया । स्वकर्मवर्त्मना साऽगात् त्वं तथैव गमिष्यसि ॥२१८॥
एकं तु हन्त भविता यदासीद् न कदाचन । मृत्युना तव शत्रूणां पूरिष्यन्ते मनोरथाः ॥ २१९ ॥ तत् प्रसीद प्रजापाल ! मृत्योर्वार्तामपि त्यज । जाते राज्यधरे कर्तुमुत्तमार्थं त्वमर्हसि ||२२०|| इत्येषां वचनान्युच्चैर्भक्तियुक्तिमयान्यपि । नृपोऽवमन्य दयिताशोकार्तो मृत्यवेऽचलत्" ॥२२१ ॥ श्रृण्वन् पौरपुरन्ध्रीणां परितो रोदनानि सः । राजा निरीय नगराद् नन्दनोद्यानमीयिवान् ॥२२२॥ " अत्रान्तरे गज श्रेष्ठी कालक्षेपकृते कृती । नृपं विज्ञपयामास समयज्ञः कृताञ्जलिः ||२२३|| देव ! चेद् गन्तुकामोऽसि कलावत्याः किलान्तिके । अस्याः श्रय तदध्वानं जिनधर्मक्रियामयम् ॥२२४॥ अस्मिन्नुपवने श्रीदेवदेवस्य जिनेशितुः । चैत्यमस्ति ततो देव ! पूजा कर्तुमिहोचिता ॥२२५॥ वनैकदेशे किञ्चानामिततेजास्तपोधनः । आस्तेऽत्र समये तस्योपास्तिश्च तव युज्यते” ॥२२६॥
[विवेकमञ्जरी