SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ [५२९ गुणानुमोदनाद्वारे कलावतीकथा] नृपः श्रुत्वेति दम्भोलिदण्डेनेवाहतो हृदि । सिंहासनात् पपात स्व:समाजादिव संगमः ॥२०३।। ततः परिजनेनाशु चन्दनव्यजनादिभिः । प्रगुणीक्रियमाणोऽपि संमुमूर्छ मुहुर्मुहुः ॥२०४॥ कथङ्कथमपि प्राप चैतन्यमवनीपतिः । कुट्टयन् भालपट्टं स्वं ससूत्कारमदोऽवदत् ॥२०५।। "अहो ममाविमर्शत्वमहो मम विमूढता । अहो ममाकृतज्ञत्वमहो मम नृशंसता ॥२०६॥ अहो मे मन्दभाग्यत्वमहो मे चापकारिता । अहो मे सददृश्यत्वमहो मे सदभाषिता" ॥२०७॥ विलपन्नित्यसौ पृष्टः किमेतदिति मन्त्रिभिः । सानुतापं ससूत्कारं सवीडमिदमब्रवीत् ॥२०८।। किं करोमि किमाख्यामि क्य यामि क्व विशामि च । आत्मानमात्मनेवाहं शोकसिन्धावपातयम् ।।२०९।। अनालोच्य कुलच्छेदमनालोच्य कुलोचितम् । अनालोच्य कुलाधर्ममनालोच्य कुलायशः ॥२१०॥ चन्द्रिकायां यथा ध्वान्तं सुधायां गरलं यथा । तस्यां दोषमसंभाव्यमपि संभाव्य दैवतः ॥२११॥ आसन्नप्रसवा प्रेषि प्रिया पितृपतेर्गृहम् । न पुनः पापिना शङ्खहतकेन पितुर्गृहम् ॥२१२॥ विशेषकम् ।। तत् कस्यापि न शक्तोऽस्मि मुखं दर्शयितुं निजम् । आत्मनोऽपि हि लज्जेऽतः परं प्राणांश्च धारयन् ।।२१३।। ततः काष्ठानि धीयन्तां प्रगुणानि महावने । विशामि येन दहने दयितावधपातकी" ॥२१४॥ 15 20
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy