________________
गुणानुमोदनाद्वारे कलावतीकथा ]
हा भ्रातः ! स्वसृवात्सल्यात् प्रहितौ यौ त्वयाङ्गदौ । तौ मे भाग्यविपर्यासदभूतां भुजभङ्गदौ ॥१७९॥ यद्वा मयैतौ निर्नाम व्याख्याताविति चक्रतुः । हन्त निर्नामतां नीतो नान्योऽपि शुभकृद् भवेत् ॥१८०॥ धिगमी विषया येषामिहापि विषपाकिता । परत्र यत् करिष्यन्ति वेत्ति सर्वज्ञ एव तत् " ॥१८१॥ एवं दुःखातिरेकेण भयोत्सेकतयापि च । नदीतीरलताकुञ्जे सासूत सहसा सुतम् ॥१८२॥ सुतजन्मनि सा तत्र शान्तदुःखाऽभवत् क्षणात् । मुक्तोष्णकरसंतापा रोदसीव विधूदये ॥१८३॥ पश्यन्ती स्निग्धया दृष्ट्या तं पुत्रं पुत्रवत्सला । जगाद हर्षबाष्पोर्मिंगद्गदाक्षरमित्यसौ ॥१८४॥ “भव त्वं वत्स ! दीर्घायुस्तत एव सुखी भव । मयैवं जातया जात ! वाच्याशीरेव केवला ॥१८५॥
सामान्यस्यापि पुत्रस्य जन्मनि स्यात् किलोत्सवः । मन्दभाग्यस्य ते वत्स ! तल्लेशेऽपि हि संशयः " अत्रान्तरे सरित्पूरो दुरोदस्तोर्मिभीषणः । आगच्छन् ददृशे देव्या हा द्विधापि विहस्तया ॥ १८७॥ ततोऽसौ पुत्रकारुण्या कुररीव विराविणी । सस्मार श्रुतसारस्य परमेष्ठिनमस्कृतेः ॥१८८॥ सत्यमश्रावयच्चैवं यदि मेऽर्हन्मते मनः । बद्धरागं, निरागश्च शीलं स्वप्नेऽपि सर्वथा ॥ १८९ ॥ कृतसाधर्मिकोद्धारे ! मातः ! शासनदेवते ! । प्रत्यञ्चतु नदीपूरस्तदा मे विपदा सह ॥ १९०॥
॥१८६॥
[ ५२७
5
10
15
20