________________
५२६]
[विवेकमञ्जरी
ध्यात्वेति निघृणः सोऽपि निशावधि कृपानिधिः । तस्थौ भूपीठलुठितां रुदतीमनु तां रुदन् ॥१६७।। अथ सैष निशाशेषे समापृच्छन् सगद्गदम् । कलावत्या निजगदे जगदेकपवित्रया ॥१६८॥ ..... भद्र ! विज्ञपयेथा मत्संदेशं शङ्खभूपतेः । किमेतदुचितं स्वामिन् ! विवेककुलयोस्तव ? ॥१६९।। "अहं दोषं न वेद्मि स्वं यद्वा वेत्ति न कोऽपि तम् । सन्देहः कोऽपि चित्तेऽभूत् तद् दिव्यं किमदा न मे ? ॥१७०॥ अथवा मयि मुक्तायामेव देवोऽभितुष्यति । तदा किं न मया प्राप्तं स्वस्त्यस्तु भवते भृशम्" ॥१७१॥ इत्युक्त्वा मूच्छितां भूयस्तामाश्वास्याश्रुमिश्रदृक् । निघृणोऽगादिहागाच्च मातङ्गीद्वितयं पुनः ॥१७२॥ करालकर्तिकापाणि तदुवाच कलावतीम् । आः पापेऽनुभव स्वामिवञ्चनापाप्मनः फलम् ॥१७३।। त्वदङ्गदौ तदीयत्वाद् दुष्टे ! तद्वदमन्यथाः । त्वद्दोर्युगं तदाश्लेषादिदं सागो निगृह्यते ॥१७४।। श्रुत्वेति मूच्छिताया हा कलावत्याः करद्वयम् । साङ्गदं कर्तयित्वा ते मातङ्ग्यौ जग्मतुः क्षणात् ॥१७५॥ कलावत्यपि मूर्छान्ते छिन्नमालोक्य दोर्युगम् । तदुःखाद् मनसो दुःखाद् व्यलपत् करुणस्वरा ॥१७६।। 'हा मातः श्रीमती ! श्रीमन् विजयोर्वीश ! तात ! हा । हा भ्रातर्जयसेनाद्य निर्भाग्येयं कलावती ॥१७७॥ पितरौ ! दुहितुः स्वस्या भगिन्या भ्रातरात्मनः । दर्शनं दीयतां नैवोपेक्षा वो हन्त ! युज्यते ।।१७८।।
15
20