________________
[५२५
गुणानुमोदनाद्वारे कलावतीकथा]
मिषं किमपि तत् कार्यं येनासौ न विलम्बते । नेया चासौ तथा सख्योऽप्यस्या जानन्ति नो यथा ॥१५५॥
ओमित्युदीर्य स रथं प्रगुणीकृत्य तत्क्षणात् । सत्वरं निघृणाख्याऽयं गत्वा देवीं व्यजिज्ञपत् ॥१५६।। देवोऽस्त्युपवने देवि ! त्वामाह्वयति सम्प्रति । तदध्यास्स्व रथं मुक्त्वा सखीजनमशेषतः ॥१५७॥ ससंभ्रममृजौ तस्यामारूढायामथो रथम् । निघृणो रचयामास त्वरगांस्तुरगानयम् ॥१५८।। प्राप्याथ निघृणोऽरण्यमगण्यश्वापदास्पदम् । स्थापयित्वा रथं तस्थौ न्यग्मुखीभूय सानहक् ॥१५९॥ दृष्ट्वा देवी तथावस्थमथावादीत् तमञ्जसा । किं रथं स्थापयित्वाऽस्थाः सशोक इव सम्प्रति ? ॥१६०|| निघृणोऽथ घृणाशोकबाष्परुद्धगलोऽगृणात् । त्याजितासि वने राज्ञा देवी ! दोषेण केनचित् ॥१६१।। तं वेत्ति यदि देव्येव यद्वा देवोऽपरस्तु न । श्रुत्वा देवीति दुःखोर्मिवाहितेवापतद् रथात् ॥१६२॥ मूच्छितां पतितामेतामुर्त्यां गुर्वी मृतामिव । विलोक्य निघृणः स्वोरः कुट्टयन् व्यलपीदिति ॥१६३।। धिग् मामधनं स्वामिकामिताज्ञापधितम् । विश्वालङ्करणं देवी नीता येनेदृशीं दशाम् ॥१६४॥ कलावत्यपि चैतन्यं प्राप्य कान्तारमारुतैः । रुसेद निभृतं 'बालस्त्रीणां हि रुदितं बलम्' ॥१६५।। निघृणश्चिन्तयामास पूर्वं नाम्नास्मि निघृणः । देवीमेकां निशि त्यक्त्वाऽधुना स्यां कर्मणापि हि ॥१६६।।
15
20