________________
५२४]
[विवेकमञ्जरी
संमदेन वदन्त्योऽमू: कमभिप्रायमात्मनः । व्यञ्जन्तीति धिया शङ्खस्ता जालेन न्यभालयत् ॥१४३।। कलावती कलाकारौ दर्श दर्शमथाङ्गदौ । समुद्दिश्य सखी: स्मेरमुखी गदितवत्यदः ॥१४४॥ अहो ! स्नेहसमुत्सेकः कोऽपि तस्य महायुषः । इमौ येनाङ्गदौ प्रीतिसङ्गतौ प्रेषितौ मयि ॥१४५॥ तद्वियोगामयग्रस्तं याभ्यामेत्यात्मसङ्गतः । वपुः सज्जीकृतं मेऽद्यागदौ तावङ्गदौ स्फुटम् ॥१४६।। सख्योऽप्युचूरयं प्रेषीत् तदवक्र यमङ्गदौ । दूरस्थोऽपि स ते चित्ते यदित्थं वर्तते वसन् ॥१४७॥ श्रुत्वेति नृपतिः सान्तस्तापश्चिन्तितवानथ । असावकृत्रिमप्रेमा क्वाप्यन्यत्र कलावती ॥१४८।। बहिर्विहितरागश्रीभरानुकृतपावकम् । गुञ्जामिवैतां कपिवद् गृहीत्वा वञ्चितोऽस्मि हा ॥१४९।। अन्यच्च परिधायान्यकेयूरौ यत्र माद्यति । तदस्या बाहुयुगलं छिन्नमेव सुखाय मे ॥१५०॥ इति क्रुद्धो महीपालश्चिन्तयित्वातिदारुणम् । स जगाम निजं धाम भास्वानप्यस्तपर्वतम् ।।१५१।। क्रमादस्तमितो भानुविवेकश्च महीपतेः । तमोभिर्व्यानशे विश्वं सद्यस्तस्य मनोऽपि च ॥१५२॥ अथैष पानचाण्डालीयुगं प्रच्छन्नमादिशत् । त्यक्तायाः साङ्गदं देव्याश्छित्त्वाऽऽनेयं भुजद्वयम् ॥१५३॥ अथादिशत्तरां राजा शय्यापालकमात्मनः । अरे शय्यालये कृत्वा देवीं त्यज बहिर्वने ॥१५४॥
15
20