________________
[५२३
गुणानुमोदनाद्वारे कलावतीकथा]
सुखसुप्ताऽन्यदा देवी स्वप्ने स्वोत्सङ्गसङ्गिनम् । विलोक्य पूर्णकलशं निशाशेषे व्यबुध्यत ॥१३१॥ प्रातः पत्ये शशंसैतत् प्रीत्या सोऽपि जगाद ताम् । देवि ! ते तनयो भावी पूर्णलक्षणलक्षणः ॥१३२॥ अथ क्रमेण सा कामक्रीडारसपयोधिगा। शङ्खाद् गर्भं दधौ शुक्तिरिव मौक्तिकमम्बुदात् ॥१३३।। कुक्षौ गर्भं वहन्ती सा हृदये च मनोरथम् ।
अष्टमासं व्यतीयाय विंशत्याभ्यधिकां दिनैः ॥१३४।। 88 इतश्च जयसेनेनाङ्गदद्वितयमात्मनः ।
प्रैषि योग्यं कलावत्या दत्तहस्तेऽस्य पूरुषैः ॥१३५।। देवशालपुरायातैस्तैः समं निजपूरुषैः । दत्तो गत्वा कलावत्याः प्रणम्येदं न्यवेदयत् ॥१३६।। एते मत्पुरुषा देवि ! देवशालादुपागताः । त्वत्कृते प्रेषितावेतौ जयसेनेन चाङ्गदौ ॥१३७॥ इत्युक्त्वाङ्गदयुग्मं तद् दत्तो देव्यै समार्पयत् । सापि जग्राह सोदर्यातुल्यवात्सल्यपूरिता ॥१३८॥ कुशलं तातपादानां कुशलं बान्धवस्य मे । कुशलं मातुरित्येतत् पप्रच्छ च कलावती ॥१३९।। आख्याय कुशलोदन्तं दत्तेन सह ते ययुः । देवी तु बन्धुवात्सल्यादङ्गदौ पर्यधादिमौ ॥१४०।। तावङ्गदौ स्वभुजयोर्निर्वर्ण्य वरवर्णिनी। प्रमोदवाधिविवशा सध्रीचीभिः सहाहसत् ॥१४१॥ इतश्च देवीसदनमागच्छन् शङ्खभूपतिः । हसितध्वनिमाकर्ण्य गवाक्षान्तरितोऽभवत् ॥१४२॥