SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 ५२२ ] तथापि जनकस्नेहमोहितो वच्मि किञ्चन । पतिमाराधयेः ‘स्त्रीणां पतिरेव हि दैवतम् ' ॥११९॥ कदापि त्वां यदि पुनः खण्डशः कुरुते पतिः । तथाप्यत्र प्रतीपत्वं भजेथा मनसापि मा ॥ १२० ॥ कष्टेऽपि पतिता वत्से ! शीलरत्नमनाविलम् । रक्षेस्तस्माद् यतः सम्पदिहामुत्र च शाश्वती ॥१२१॥ इत्यादरेण साकूतं शिक्षयित्वा कलावतीम् । उवाच विजयक्षोणीपतिर्दत्तं प्रदत्तमुत् ॥१२२॥ वत्स ! त्वं तत्र यदसि तदावां स्वयमास्वहे । अहं च जयसेनश्च कलावत्याः किलान्तिके ॥ १२३॥ अस्यामतुच्छवात्सल्यपरेण भवता ततः । वर्तितव्यं तथास्माकं यथा नैव स्मरत्यसौ ॥ १२४ ॥ भालयित्वा सुतामेवं शिक्षयित्वा च तं ततः । विजयक्ष्मापतिः पुत्रीवियोगार्त्तो न्यवर्तत ॥१२५॥ स्वतातविरहाज्जातमहारणरणं क्षणम् । शङ्खोऽभिधीरयामास प्रेमालापैः कलावतीम् ॥१२६॥ अथ तौ दम्पती स्यूताविव प्रेमगुणैरिमौ । पथि शय्यालयारूढाववियुक्तौ प्रचेतुः ॥१२७॥ संकुचन्त्यामिव क्षोणौ सैन्यसंमर्दतोऽभितः । प्रापेव संमुखं शङ्खपुरं शङ्खमहीपतेः ॥१२८॥ स्कन्धावारयुतौ हस्तिस्कन्धारूढावथो पुरम् । दम्पती तावविशतां पौरीभिः स्तुतसङ्गमौ ॥१२९॥ कलावत्या समं शङ्खः पौलोम्येव पुरन्दरः । भुञ्जानो विषयान् कामं कालं गतममंस्त न ॥ १३०॥ [ विवेकमञ्जरी
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy