________________
[५२१
गुणानुमोदनाद्वारे कलावतीकथा]
को देवः सर्वज्ञः कश्च गुरुर्विषयसङ्गधुतरङ्गः। किं तत्त्वं जीवदया किं सत्त्वं विषयचयविजयः ॥१०७॥ ततश्चित्तचमत्कारो विदुषां विद्विषामपि । अभूत् कलावती त्वस्य कण्ठेऽधाद् वरमालिकाम् ॥१०८॥ बद्धक्रुधोऽपि भूपास्ते शङ्ख न प्राभवंस्तदा । कलावतीसतीत्वेन स्तम्भिताभुजगा इव ॥१०९॥ अथ तत्काललग्ने तां दत्तां विजयभूभुजा । निरपायमुपायंस्त शङ्खः सैष कलावतीम् ।।११०॥ ततश्चकार सत्कारं जामातुर्विजयो नृपः । हर्षेण हास्तिकाश्वीयवसनाशनभूषणैः ॥१११॥ अन्यानपि महीपालानशनैर्वसनैरपि । सत्कृत्य कृत्यवित् प्रैषीदसौ निजनिजं पुरम् ॥११२॥ शङ्खः सैन्यभरक्षुब्धशेषः शङ्खपुरं प्रति । प्रतस्थे विजयक्ष्मापमापृच्छ्य कथमप्यसौ ॥११३।। कियन्तमप्यथाध्वानमनुगम्य न्यवर्तत । विजयक्ष्माभृता शङ्खो जगदेऽश्रूणि मुञ्चता ॥११४॥ "इयं वत्स ! तवोत्सङ्गे न्यवेश्यत कलावती । मर्षणीया कुलीनाऽस्यास्तत् कापि विनयच्युतिः ॥११५।। अपराधभ्रमोत्सेके जाते जातु न हि त्वया । त्याज्या न्याय्यान्वयेनासौ कार्याकार्यविवेकिना" ॥११६।। सोपरोधं सवात्सल्यं सविश्रम्भं सगद्गदम् । शङ्खमुक्त्वेत्यथावादीदात्मनो नन्दनीमपि ॥११७।। "पुत्रि ! त्वं जिनधर्मैकवासनापास्तदुर्नया । स्वाभावेनासि तच्छिक्षा त्वयि मण्डितमण्डनम् ॥११८॥