________________
5
10
15
20
५२० ]
सुप्रगल्भेषु सभ्येषु निविष्टेषु यथायथम् । काष्ठिकैः कुट्ट्यमानासु मिलितासु प्रजासु च ॥९५॥ ततः कलावती तत्र प्रतीहारीभिरावृता । अप्सरोभिः समं लक्ष्मीरिव पाथोधनिःसृता ॥९६॥ याप्ययानस्थिता सर्वाङ्गीणाभरणभूषिता । वारस्त्रीचामरमरुद्वीचिभिर्नर्तितालका ॥९७॥ पुरः सखीकरधृतां स्वयंवरणमालिकाम् । पश्यन्ती भ्रमरहितां चेतोवृत्तिमिवात्मनः ॥९८॥
स्तूयमानामितगुणद्वैता वैतालिकीजनैः ।
आययौ कान्तिविस्फूर्तिर्मूर्तेवाज्ञा मनोभुवः ॥९९॥ सप्तभिः कुलकम् । नवोदितायां शीतांशुलेखायामिव तत्क्षणात् । समकालं दृशस्तस्यां निपेतुरवनीभृताम् ॥१००॥ कलावत्या निदेशेन धारिणी धारिणी ।
करे प्रश्नचतुष्कस्य पत्रं कृत्वेदमब्रवीत् ॥१०१॥
भूपाः ! प्रश्नचतुष्टयमेतत् क्रमतः कलावतीदेव्याः ।
को देवः कश्च गुरुः किं तत्त्वं कथयतापि किं सत्त्वम् ? ॥१०२॥
प्रत्येकमुत्तराण्येते स्वस्वप्रज्ञानुमानतः ।
ददति स्मार्हती किन्तु न मेने च कलावती ॥१०३।।
[ विवेकमञ्जरी
अथ शङ्खमहीपालः प्राह विस्मापयन् सभाम् । स्वमञ्चस्तम्भपाञ्चालीमूर्ध्नि दत्तकराम्बुजः ||१०४|| यथा कलावतीदेव्याः प्रश्नं तं कुरुषे शुभे ! तथोत्तरं मम पुनः पाञ्चालीयं प्रदास्यति ॥ १०५॥ ततः सा धारिणी शालभञ्जी साप्यार्ययैकया । उच्चैरुच्चेरतुः प्रश्नमुत्तरं च क्रमादिति ॥१०६॥