SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ गुणानुमोदनाद्वारे कलावतीकथा ] महान्तस्त्वादृशा दत्त ! यान्ति यत्र निजेच्छया । तत्र तत्रोपकाराय यथार्केन्दुघनाघनाः ॥८३॥ यथा त्वं जयसेनस्य राज्यभाग्यसि भाग्यतः । तथा ममापि तृष्णार्त्या यातः प्राणान् प्रधारयन् ॥८४॥ इति संभाष्य सत्कृत्य दत्तं प्रैषीद् गृहानयम् । स्वयं मन्त्रिषु विन्यस्तामुद्दधार धुरं भुवः ॥८५॥ अथ दत्तगिरा दत्तप्रयाणं शङ्खभूपतिः । साक्षात् कलावतीं द्रष्टुं देवशालपुरं प्रति ॥८६॥ दत्तेन सहितो राजा माधवेनेव मन्मथः । देवशालपुरं प्राप्तः प्रयाणैरविलम्बितैः ||८७|| अनेकायात भूपालनिवासपदमण्डपैः । यावद् दृष्टिसमाकीर्णं शैलैरिव समन्ततः ॥८८॥ युग्मम् ॥ विजयः संमुखोऽभ्येत्य शङ्खं सत्कृत्य संभ्रमात् । देवशालपुरोपान्ततरुषण्डे न्यवासयत् ॥८९॥ आह्वयन्तमिवानन्तैश्चलद्भिः केतुपाणिभिः । अथ भूपाः समाजग्मुः स्वयंवरणमण्डपम् ॥९०॥ सुप्रपञ्चेषु मञ्चेषु तेऽस्थुः पञ्चेषुमूर्त्तयः । वाञ्छन्तो भारतीं ध्यानादात्मन्यात्मप्रभावतीम् ॥९१॥ एकस्मिन् सह दत्तेन मञ्चे शङ्खनरेश्वरः । निषसादेन्द्रवद् मेरावुपेन्द्रेण समन्वितः ॥९२॥ पठत्सु बन्दिषु क्षोणीभृतां क्शादिवेदिषु । पञ्चशब्दप्रणादेन नृत्यत्सु वनकेकिषु ॥९३॥ स्वर्णालङ्कारकिरणमञ्जरीपिञ्जरीकृताः । दिशो धूपघटाधूमे ललामयति सर्वतः ॥९४॥ [ ५१९ 5 10 15 20
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy